Book 3 • Chapter 39
Sarga 39
25 verses
Verse 1
एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम्
Verse 2
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्
Verse 3
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः व्यचरं दण्डकारण्यं मांसभक्षो महामृगः
Verse 4
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण अत्यन्तघोरो व्यचरं तापसान्सम्प्रधर्षयन्
Verse 5
निहत्य दण्डकारण्ये तापसान्धर्मचारिणः रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्
Verse 6
ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान् तथा रुधिरमत्तोऽहं विचरन्धर्मदूषकः
Verse 7
आसादयं तदा रामं तापसं धर्मचारिणम् वैदेहीं च महाभागां लक्ष्मणं च महारथम्
Verse 8
तापसं नियताहारं सर्वभूतहिते रतम् सोऽहं वनगतं रामं परिभूय महाबलम् तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् अभ्यधावं हि संक्रुद्धस्तीक्ष्ण शृङ्गो मृगाकृतिः जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्
Verse 9
तापसं नियताहारं सर्वभूतहिते रतम् सोऽहं वनगतं रामं परिभूय महाबलम् तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् अभ्यधावं हि संक्रुद्धस्तीक्ष्ण शृङ्गो मृगाकृतिः जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्
Verse 10
तेन मुक्तास्त्रयो बाणाश्शिताश्शत्रुनिबर्हणाः विकृष्य बलवच्चापं सुपर्णानिलनिस्स्वनाः
Verse 11
ते बाणा वज्रसङ्काशास्सुमुक्ता रक्तभोजनाः आजग्मुस्सहितास्सर्वे त्रयस्सन्नतपर्वणः
Verse 12
पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा समुद्भान्तस्ततोमुक्तस्तावुभौ राक्षसौ हतौ
Verse 13
शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः
Verse 14
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् गृहीतधनुषं रामं पाशहस्तमिवान्तकम्
Verse 15
अपि रामसहस्राणि भीतः पश्यामि रावण रामभूतमिदं सर्वमरण्यं प्रतिभाति मे
Verse 16
राममेव हि पश्यामि रहिते राक्षसाधिप दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः
Verse 17
रकारादीनि नामानि रामत्रस्तस्य रावण रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे
Verse 18
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः
Verse 19
रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि
Verse 20
बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः परेषामपराधेन विनष्ठास्सपरिच्छदाः
Verse 21
सोऽऽहं तवापराधेन विनश्येयं निशाचर कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह
Verse 22
रामश्च हि महातेजा महासत्त्वो महाबलः अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः
Verse 23
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः
Verse 24
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः
Verse 25
इदं वचो बन्धुहितार्थिनामया यथोच्यमानं यदि नाभिपत्स्यसे सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽऽद्य रामेण शरैरजिह्मगैः
0:000:00
Speed: