🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 40

Sarga 40

27 verses

Verse 1
मारीचेन तु तद्वाक्यं क्षमं युक्तं  निशाचरः उक्तो  प्रतिजग्राह मर्तुकाम इवौषधम्
Verse 2
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः
Verse 3
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे
Verse 4
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे पापशीलस्य मूर्खस्य मानुषस्य विशेषतः
Verse 5
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः
Verse 6
अवश्यन्तु मया तस्य संयुगे खरघातिनः प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ
Verse 7
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते  व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः
Verse 8
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये
Verse 9
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता उद्यताञ्जलिना राज्ञे  इच्छेद्भूतिमात्मनः
Verse 10
वाक्यमप्रितकूलं तु मृदुपूर्वं हितं शुभम् उपचारेण युक्तं  वक्तव्यो वसुधाधिपः
Verse 11
सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्
Verse 12
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य 
Verse 13
औष्ण्यं तथा विक्रमं  सौम्यं दण्डं प्रसन्नताम् धारयन्ति महात्मानो राजानः क्षणदाचर तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः
Verse 14
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः अभ्यागतं मां दौरात्म्यात्परुषं वक्तुमिच्छसि
Verse 15
गुणदोषौ  पृच्छामि क्षमं चात्मनि राक्षस मयोक्तं तव चैतावत्संप्रत्यमितविक्रमः
Verse 16
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम
Verse 17
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर
Verse 18
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि
Verse 19
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली
Verse 20
अपक्रान्ते तु काकुत्स्थे दूरं यात्वाप्युदाहर हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्
Verse 21
तच्छ्रुत्वा रामपदवीं सीतया  प्रचोदितः अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्
Verse 22
अपक्रान्ते  काकुत्स्थे लक्ष्मणे  यथासुखम् आनयिष्यामि वैदेहीं सहस्राक्षश्शचीमिव
Verse 23
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत
Verse 24
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये अहं त्वानुगमिष्यामि सरथो दण्डकावनम्
Verse 25
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् लङ्कां प्रतिगमिष्यामि कृतकार्यस्सह त्वया
Verse 26
 चेत्करोषि मारीच हन्मि त्वामहमद्य वै एतत्कार्यमवश्यं मे बलादपि करिष्यसि राज्ञो हि प्रतिकूलस्थो  जातु सुखमेधते
Verse 27
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्
0:000:00
Speed: