Book 3 • Chapter 41
Sarga 41
20 verses
Verse 1
आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम्
Verse 2
केनायमुपदिष्टस्ते विनाशः पापकर्मणा सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर
Verse 3
कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः
Verse 4
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा
Verse 5
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर
Verse 6
वध्याः खलु न हन्यन्ते सचिवास्तव रावण ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः
Verse 7
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः निग्राह्यस्सर्वथा सदभिर्न निग्राह्यो निगृह्यसे
Verse 8
धर्ममर्थं च कामं च यशश्च जयतां वर स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर
Verse 9
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः
Verse 10
राजमूलो हि धर्मश्च जयश्च जयतां वर तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः
Verse 11
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर न चापि प्रतिकूलेन नाविनीतेन राक्षस
Verse 12
ये तीक्ष्णमन्त्रास्सचिवा भज्यन्ते सह तेन वै विषमे तुरगा श्शीघ्रा मन्दसारथयो यथा
Verse 13
बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः परेषामपराधेन विनष्टास्सपरिच्छदाः
Verse 14
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा
Verse 15
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
Verse 16
तदिदं काकतालीयं घोरमासादितं मया अत्र किं शोचनीयस्त्वं ससैन्यो विनशिष्यसि
Verse 17
मां निहत्य तु रामश्च न चिरात्त्वां वधिष्यति अनेन कृतकृत्योऽस्मि म्रियेयमरिणा हतः
Verse 18
दर्शनादेव रामस्य हतं मामवधारय आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्
Verse 19
आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया नैवत्वमसि नाहं च नैव लङ्का न राक्षसाः
Verse 20
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्
0:000:00
Speed: