🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 42

Sarga 42

35 verses

Verse 1
एवमुक्त्वा तु वचनं मारीचो रावणं ततः गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः
Verse 2
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा मद्वधोद्यतशस्त्रेऽण विनष्टं जीवितं  मे
Verse 3
 हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते
Verse 4
किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर
Verse 5
प्रहृष्टस्त्वभवत्तेन वचनेन  रावणः परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्
Verse 6
एतच्छौण्डीर्ययुक्तं ते मच्छन्दवशवर्तिनः इदानीमसि मारीचः पूर्वमन्यो निशाचरः
Verse 7
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः मया सह तथा युक्तः पिशाचवदनैः खरैः
Verse 8
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्
Verse 9
ततो रावणमारीचौ विमानमिव तं रथम् आरुह्य ययतुश्शीघ्रं तस्मादाश्रममण्डलात्
Verse 10
तथैव तत्र पश्यन्तौ पत्तनानि वनानि  गीरींश्च सरितस्सर्वा राष्ट्राणि नगराणि 
Verse 11
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ददर्श सह मारीचो रावणो राक्षसाधिपः
Verse 12
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्
Verse 13
एतदाश्रमपदं दृश्यते कदलीवृतम् क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः
Verse 14
 रावणवचश्श्रुत्वा मारीचो राक्षसस्तदा मृगो भूत्वाऽश्रमद्वारि रामस्य विचचार 
Verse 15
 तु तद्रूपमास्थाय महदद्भुतदर्शनम् मणिप्रवरशृङ्गाग्रस्सितासितमुखाकृतिः
Verse 16
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः किंचिदभ्युन्नतग्रीव इंद्रनीलदलाधरः
Verse 17
कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम् मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः वैडूर्यसङ्काशखुरस्तनुजङ्घस्सुसंहतः
Verse 18
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता मनोहरस्स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः
Verse 19
क्षणेन राक्षसो जातो मृगः परमशोभनः वनं प्रज्वलयन्रम्यं रामाश्रमपदं  तत्
Verse 20
मनोहरं दर्शनीयं रूपं कृत्वा  राक्षसः प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः
Verse 21
मनोहरं दर्शनीयं रूपं कृत्वा  राक्षसः प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः
Verse 22
रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा  प्रियदर्शनः विटपीनां किसलयान्भङ्त्क्वाऽदन्विचचार 
Verse 23
कदलीगृहकं गत्वा कर्णिकारानितस्ततः समाश्रयन्मन्दगतिस्सीतासन्दर्शनं तथा
Verse 24
राजीवचित्रपृष्ठस्स विरराज महामृगः रामाश्रमपदाभ्याशे विचचार यथासुखम्
Verse 25
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते
Verse 26
विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति आश्रमद्वारमागम्य मृगयूथानि गच्छति
Verse 27
मृगयूथैरनुगतः पुनरेव निवर्तते सीतादर्शनमाकांक्षन्राक्षसो मृगतां गतः परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्
Verse 28
समुद्वीक्ष्य  ते सर्वे मृगा ह्यन्ये वनेचराः उपागम्य समाघ्राय विद्रवन्ति दिशो दश
Verse 29
राक्षसस्सोऽपि तान्वन्यान्मृगान्मृगवधे रतः प्रच्छादनार्थं भावस्य  भक्षयति संस्पृशन्
Verse 30
तस्मिन्नेव ततः काले वैदेही शुभलोचना कुसुमावचयव्यग्रा पादपानभ्यवर्तत
Verse 31
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा कुसुमान्यवचिन्वन्ती चचार रुचिरानना
Verse 32
अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् मुक्तामणि विचित्राङ्गं ददर्श परमाङ्गना
Verse 33
सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत
Verse 34
  तां रामदयितां पश्यन्मायामयो मृगः विचचार पुनश्चित्रं दीपयन्निव तद्वनम्
Verse 35
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् विस्मयं परमं सीता जगाम जनकात्मजा
0:000:00
Speed: