Book 3 • Chapter 43
Sarga 43
50 verses
Verse 1
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी भर्तारमपि चक्रन्द लक्ष्मणं चापि सायुधम्
Verse 2
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी भर्तारमपि चक्रन्द लक्ष्मणं चापि सायुधम्
Verse 3
तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ वीक्षमाणौ तु तौ देशं तदा ददृशतुर्मृगम्
Verse 4
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्
Verse 5
चरन्तोमृगयां हृष्टाः पापेनोपाधिना वने अनेन निहता राजन् राजानः कामरूपिणा
Verse 6
अस्य मायाविदो मायामृगरूपमिदं कृतम् भानुमत्पुरुषव्याघ्र गन्धर्वपुरसन्निभम्
Verse 7
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव जगत्यां जगतीनाथ मायैषा हि न संशयः
Verse 8
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता उवाच सीता संहृष्टा चर्मणा हृतचेतना
Verse 9
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः आनयैनं महाबाहो क्रीडार्थं नो भविष्यति
Verse 10
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः मृगाश्चरन्ति सहिताश्चमरास्सृमरास्तथा
Verse 11
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा विचरन्ति महाबाहो रुपश्रेष्ठा मनोहराः
Verse 12
न चास्य सदृशो राजन्दृष्टपूर्वो मृगो मया तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः
Verse 13
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः द्योतयन्वनमव्यग्रं शोभते शशिसन्निभः
Verse 14
अहो रूपमहो लक्ष्मीस्स्वरसम्पच्च शोभना मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे
Verse 15
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव आश्चर्यभूतं भवति विस्मयं जनयिष्यति
Verse 16
समाप्तवनवासानां राज्यस्थानां च नः पुनः अन्तःपुरविभूषार्थो मृग एष भविष्यति
Verse 17
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति
Verse 18
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः अजिनं नरशार्दूल रुचिरं मे भविष्यति
Verse 19
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्
Verse 20
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम
Verse 21
तेन काञ्चनवर्णेन मणिप्रवरशृङ्गिणा तरुणादित्यवर्णेन नक्षत्रपथवर्चसा बभूव राघवस्यापि मनो विस्मयमागतम्
Verse 22
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् लोभितस्तेन रूपेण सीतया च प्रचोदितः उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
Verse 23
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् लोभितस्तेन रूपेण सीतया च प्रचोदितः उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
Verse 24
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति न वने नन्दनोद्धेशे न चैत्ररथसंश्रये कुतःपृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः
Verse 25
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति न वने नन्दनोद्धेशे न चैत्ररथसंश्रये कुतःपृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः
Verse 26
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दवः
Verse 27
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् जिह्वां मुखान्निस्सरन्तीं मेघादिव शतह्रदाम्
Verse 28
मसारगल्लर्कमुखश्शङ्खमुक्तानिभोदरः कस्य नामाभिरूप्योऽसौ न मनो लोभयेन्मृगः
Verse 29
कस्य रूपमिदं दृष्ट्वा जाम्बूनद मयप्रभम् नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्
Verse 30
मांसहेतोरपि मृगान्विनोदार्थं च धन्वनः घ्नन्ति लक्ष्मण राजानो मृगयायां महावने
Verse 31
धनानि व्यवसायेन विचीयन्ते महावने धातवो विविधाश्चापि मणिरत्नसुवर्णिनः
Verse 32
तत्सारमखिलं नृ़णां धनं निचयवर्धनम् मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण
Verse 33
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण
Verse 34
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि उपवेक्ष्यति वैदेही मया सह सुमध्यमा
Verse 35
न कादली न प्रियकी न प्रवेणी न चाविकी भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः
Verse 36
एष चैव मृगश्श्रीमान् यश्च दिव्यो नभश्चरः उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ
Verse 37
यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण मायैषा राक्षसस्येति कर्तव्योस्य वधो मया
Verse 38
एतेन हि नृशंसेन मारीचेनाकृतात्मना वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः
Verse 39
उत्थाय बहवो येन मृगयायां जनाधिपाः निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः
Verse 40
पुरस्तादिह वातापिः परिभूय तपस्विनः उदरस्थो द्विजान्हन्तिस्वगर्भोऽश्वतरीमिव
Verse 41
स कदाचिच्चिराल्लोभादाससाद महामुनिम् अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह
Verse 42
समुत्थाने व तद्रूपं कर्तुकामं समीक्ष्य तम् उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत्
Verse 43
त्वयाऽविगण्य वातापे परिभूतास्स्वतेजसा जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः
Verse 44
तदेवं न भवेद्रक्षोवातापिरिव लक्ष्मण मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः
Verse 45
इह त्वं भव सन्नद्दो यन्त्रितो रक्ष मैथिलीम् अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन
Verse 46
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्
Verse 47
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति
Verse 48
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया यावत्पृषतमेकेन सायकेन निहन्म्यहम् हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण
Verse 49
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया यावत्पृषतमेकेन सायकेन निहन्म्यहम् हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण
Verse 50
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः
0:000:00
Speed: