🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 44

Sarga 44

27 verses

Verse 1
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्
Verse 2
तत स्त्र्यवनतं चापमादायाऽत्मविभूषणम् आबध्य  कलापौ द्वौ जगामोदग्रविक्रमः
Verse 3
तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्यवै बभूवान्तर्हितस्त्रासात्पुनस्सन्दर्शनेऽभवत् च3.44.3 बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः
Verse 4
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने अतिवृत्तमिषोः पाताल्लोभयानं कदाचन शङ्कितन्तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे दृश्यमानमदृश्यं  वनोद्देशेषु केषुचित् छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्
Verse 5

Verse 6

Verse 7
मुहुर्तादेव ददृशे मुहुर्दूरात्प्रकाशते दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः
Verse 8

Verse 9
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः अथावतस्थे संभ्रान्तश्चायामाश्रित्य शाद्वले
Verse 10
 तमुन्मादयामास मृगरूपो निशाचरः मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत
Verse 11
गृहीतुकामं दृष्ट्वैवं पुनरेवाभ्यधावत तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत्
Verse 12
पुनरेव ततो दूराद्वृक्षषण्डाद्विनिस्सृतम् दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः
Verse 13
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः सन्धाय सुदृढे चापे विकृष्य बलवद्बली तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्
Verse 14

Verse 15
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः मारीचस्यैव हृदयं बिभेदाशनिसन्निभः
Verse 16
तालमात्रमथोत्प्लुत्य न्यपतत्सशरातुरः विनदन्भैरवं नादं धरण्यामल्पजीवितः
Verse 17
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत्
Verse 18

Verse 19
 प्राप्तकालमाज्ञाय चकार  तत स्वनम् सदृशं राघवस्येह हा सीते लक्ष्मणेति 
Verse 20
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः चक्रे  सुमहाकायं मारीचो जीवितं त्यजन्
Verse 21
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले जगाम मनसा सीतां लक्ष्मणस्य वचस्स्मरन्
Verse 22

Verse 23
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः
Verse 24
हा सीते लक्ष्मणेत्येवमाक्रुश्य  महास्वरम् ममार राक्षसस्सोऽयं श्रुत्वा सीता कथं भवेत् लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः
Verse 25

Verse 26
तत्र रामं भयं तीव्रमाविवेश विषादजम् राक्षसं मृगरूपं तं हत्वा श्रुत्वा  तत्स्वरम्
Verse 27
निहत्य पृषतं चान्यं मांसमादाय राघवः त्वरमाणो जनस्थानं ससाराभिमुखस्तदा
0:000:00
Speed: