🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 45

Sarga 45

40 verses

Verse 1
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने उवाच लक्ष्मणं सीता गच्छ जीनीहि राघवम्
Verse 2
 हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम् आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि
Verse 3
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् रक्षसां वशमापन्नं सिंहानामिव गोवृषम्
Verse 4
 जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् तमुवाच ततस्तत्र कुपिता जनकात्मजा
Verse 5
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे
Verse 6
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते लोभात्त्वं मत्कृते नूनं नानुगच्छसि राघवम्
Verse 7
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरिनास्तिते तेन तिष्ठसि विश्रब्धंतमपश्यन्महाद्युतिम्
Verse 8
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः
Verse 9
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव
Verse 10
पन्नगासुरगन्धर्वदेवमानुषराक्षसैः अशक्यस्तव वैदेहि भर्ता जेतुं  संशयः
Verse 11
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु  दानवेषु  घोरेषु   विद्येत शोभने यो रामं प्रतियुध्येत समरे वासवोपमम्
Verse 12
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु  दानवेषु  घोरेषु   विद्येत शोभने यो रामं प्रतियुध्येत समरे वासवोपमम्
Verse 13
अवध्यस्समरे रामो नैवं त्वं वक्तुमर्हसि  त्वामस्मिन्वने हातुमुत्सहे राघवं विना
Verse 14
अनिवार्यं बलं तस्य बलैर्बलवतामपि त्रिभिर्लोकैस्समुद्युक्तैस्सेश्वरैरपि सामरैः
Verse 15
हृदयं निर्वृतं तेऽस्तुसन्तापस्त्यज्यतामयम् आगमिष्यति ते भर्ता श्रीघ्रं हत्वा मृगोत्तमम्
Verse 16
  तस्य स्वरो व्यक्तं मायया केन चित्कृतः गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः
Verse 17
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना रामेण त्वं वरारोहे  त्वां त्यक्तुमिहोत्सहे
Verse 18
कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः खरस्य निधनादेव जनस्थानवधं प्रति
Verse 19
राक्षसा विविधा वाचो विसृजन्ति महावने हिंसाविहारा वैदेहि  चिन्तयितुमर्हसि
Verse 20
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्
Verse 21
अनार्याकरणारम्भ नृशंस कुलपांसन अहं तव प्रियं मन्ये रामस्य व्यसनं महत्
Verse 22
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु
Verse 23
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु
Verse 24
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि मम हेतोः प्रतिच्छन्नः प्रयुक्तोभरतेन वा
Verse 25
तन्नसिध्यति सौमित्रे तव वा भरतस्य वा कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्
Verse 26
समक्षं तव सौमित्रे प्राणांस्त्यक्षे  संशयः रामं विना क्षणमपि  हि जीवामि भूतले
Verse 27
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् अब्रवील्लक्ष्मणस्सीतां प्राञ्जलिर्विजितेन्द्रियः
Verse 28
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम वाक्यमप्रतिरूपं तु  चित्रं स्त्रीषु मैथिलि स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते
Verse 29
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम वाक्यमप्रतिरूपं तु  चित्रं स्त्रीषु मैथिलि स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते
Verse 30
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः  सहे हीदृशं वाक्यं वैदेहि जनकात्मजे श्रोत्रयोरुभयोर्मेद्य तप्तनाराचसन्निभम्
Verse 31
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया
Verse 32
धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे स्त्रीत्वलदुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम्
Verse 33
गमिष्ये यत्र काकुत्स्थ स्वस्ति तेऽस्तु वरानने रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः
Verse 34
निमित्तानि  घोराणि यानि प्रादुर्भवन्ति मे अपि त्वां सह रामेण पश्येयं पुनरागतः  वेत्येतन्न जानामि वैदेहि जनकात्मजे
Verse 35
निमित्तानि  घोराणि यानि प्रादुर्भवन्ति मे अपि त्वां सह रामेण पश्येयं पुनरागतः  वेत्येतन्न जानामि वैदेहि जनकात्मजे
Verse 36
लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता
Verse 37
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण अबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः
Verse 38
पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्  त्वहं राघवादन्यं पदापि पुरुषं स्पृशे
Verse 39
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता पाणिभ्यां रुदती दुःखादुदरं प्रजघान 
Verse 40
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् आश्वासयामास  चैव भर्तु स्तं भ्रातरंकिञ्चिदुवाच सीता
0:000:00
Speed: