Book 3 • Chapter 46
Sarga 46
37 verses
Verse 1
तया परुषमुक्तस्तु कुपितो राघवानुजः स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव
Verse 2
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः अभिचक्राम वैदेहीं परिव्राजकरूपधृक्
Verse 3
श्लक्ष्णकाषायसंवीतश्शिखी छत्री उपानही वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू परिव्राजकरूपेण वैदेहीमन्वपद्यत
Verse 4
तामाससादातिबलो भ्रातृभ्यां रहितां वने रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः
Verse 5
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः
Verse 6
तमुग्रतेजःकर्माणं जनस्थानरूहा द्रुमाः समीक्ष्य सम्प्रकम्पन्ते न प्रवाति च मारुतः
Verse 7
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी
Verse 8
रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे उपतस्थे च वै देहीं भिक्षुरूपेण रावणः
Verse 9
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः
Verse 10
स पापो भव्यरूपेण तृणैः कूप इवावृतः अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्निं यशस्विनीम्
Verse 11
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः
Verse 12
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः
Verse 13
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः
Verse 14
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् विभ्राजमानां वपुषा रावणः प्रशशंस ह
Verse 15
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि कमलानां शुभां मालां पद्मिनीव हि बिभ्रती
Verse 16
ह्रीः कीर्तिः श्रीश्शुभा लक्ष्मीरप्सरा वा शुभानने भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी
Verse 17
समाश्शिखरिणस्स्निग्धाः पाण्डुरा दशनास्तव विशाले विमले नेत्रे रक्तान्ते कृष्णतारके
Verse 18
विशालं जघनं पीनमूरू करिकरोपमौ एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ
Verse 19
विशालं जघनं पीनमूरू करिकरोपमौ एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ
Verse 20
चारुस्मिते चारुदति चारुनेत्रे विलासिनि मनो हरसि मे कान्ते नदी कूलमिवाम्भसा करान्तमितमध्यासि सुकेशी संहतस्तनी
Verse 21
चारुस्मिते चारुदति चारुनेत्रे विलासिनि मनो हरसि मे कान्ते नदी कूलमिवाम्भसा करान्तमितमध्यासि सुकेशी संहतस्तनी
Verse 22
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी नैवंरूपा मया नारी दृष्टपूर्वा महीतले
Verse 23
रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्चते इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे
Verse 24
सा प्रतिक्राम भद्रं ते नैवं वस्तुमिहार्हसि राक्षसानामयं वासो घोराणां कामरूपिणाम्
Verse 25
प्रासादाग्राणि रम्याणि नगरोपवनानि च सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया
Verse 26
वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे
Verse 27
का त्वं भवसि रुद्राणां मरुतां वा वरानने वसूनां वा वरावोहे देवता प्रतिभासि मे
Verse 28
नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः राक्षसानामयं वासः कथं नु त्वमिहागता
Verse 29
इह शाखामृगास्सिंहा द्वीपिव्याघ्रमृगास्तथा ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि
Verse 30
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् कथमेका महारण्ये न बिभेषि वरानने
Verse 31
कासि कस्य कुतश्चित्त्वं किं निमित्तं च दण्डकान् एका चरसि कल्याणि घोरान्राक्षससेवितान्
Verse 32
इति प्रशस्ता वैदेही रावणेन दुरात्मना द्विजातिवेशेण हि तं दृष्ट्वा रावणमागतम् सर्वैरतिथिसत्कारैः पूजयामास मैथिली
Verse 33
उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्
Verse 34
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् अशक्यमुद्वेष्टुमपायदर्शनम् न्यमन्त्रयद्ब्राह्मणवत्तदाङ्गना
Verse 35
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्
Verse 36
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् प्रसह्य तस्याहरणे धृतं मनः समर्पयत्स्वात्मवधाय रावणः
Verse 37
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्णौ
0:000:00
Speed: