🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 47

Sarga 47

50 verses

Verse 1
रावणेन तु वैदेही तदा पृष्टा जिहीर्षता परिव्राजकरूपेण शशंसात्मानमात्मना
Verse 2
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्
Verse 3
दुहिता जनकस्याहं मैथिलस्य महात्मनः सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम
Verse 4
उषित्वा द्वादश समा इक्ष्वाकुणां निवेशने भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी
Verse 5
ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
Verse 6
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने कैकेयी नाम भर्तारमार्या सा याचते वरम्
Verse 7
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम्
Verse 8
नाद्य भोक्ष्ये   स्वप्स्ये  पास्येच कथञ्चन एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
Verse 9
इति ब्रुवाणां कैकेयीं श्वशुरो मे  मानदः अयाचतार्थैरन्वर्थैर्न  याञ्चां चकार सा
Verse 10
मम भर्तामहातेजा वयसा पञ्चविंशकः अष्टादश हि वर्षाणि मम जन्मनि गण्यते
Verse 11
रामेति प्रथितो लोके गुणवान्सत्यवान्शुचिः विशालाक्षो महाबाहुस्सर्वभूतहिते रतः
Verse 12
कामार्तस्तु महातेजाः पिता दशरथस्स्वयम् कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्
Verse 13
अभिषेकाय तु पितुस्समीपं राममागतम् कैकेयी मम भर्तारमित्युवाच धृतं वचः
Verse 14
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव भरताय प्रदातव्यमिदं राज्यमकण्टकम्
Verse 15
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च  वने प्रव्रज काकुत्स्थ पितरं मोचयानृतान्
Verse 16
तथेत्युक्त्वा  तां रामः कैकेयीमकुतोभयः चकार तद्वचस्तस्या मम भर्ता दृढव्रतः
Verse 17
दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम् एतद्ब्राह्मण रामस्य ध्रृवं व्रतमनुत्तमम्
Verse 18
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् रामस्य पुरुषव्याघ्रस्सहायस्समरेरिहा
Verse 19
 भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः अन्वगच्छद्दनुष्पाणिः प्रव्रजन्तं मया सह
Verse 20
जटी तापसरूपेण मया सह सहानुजः प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः
Verse 21
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः विचरामो द्विजश्रेष्ठ वनं गम्भीरमोजसा
Verse 22
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून्
Verse 23
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् रुरून्गोधा न्वराहांश्च हत्वाऽदायाऽमिषान्बहून्
Verse 24
 त्वं नाम  गोत्रञ्च कुलं चाचक्ष्व तत्त्वतः एकश्च दण्डकारण्ये किमर्थं चरसि द्विज
Verse 25
एवं बृवन्त्यां सीतायां रामपत्न्यां महाबलः प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः
Verse 26
येन वित्रासिता लोकास्सदेवासुरपन्नगाः अहं तु रावणो नाम सीते रक्षोगणेश्वरः
Verse 27
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते
Verse 28
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः सर्वासामेव भद्रं ते ममाग्रमहिषी भव
Verse 29
लङ्कानाम समुद्रस्य मम मध्ये महापुरी सागरेण परिक्षिस्ता निविष्टा नगमूर्धनि
Verse 30
तत्र सीते मया सार्धं वनेषु विहरिष्यसि  चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि
Verse 31
पञ्च दास्यस्सहस्राणि सर्वाभरणभूषिताः सीते परिचरिष्यन्ति भार्या भवसि मे यदि
Verse 32
रावणेनैवमुक्ता तु कुपिता जनकात्मजा प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्
Verse 33
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् महोदधिमिवाक्षोभ्यमहं राममनुव्रता
Verse 34
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् सत्यसन्धं महाभागमहं राममनुव्रता
Verse 35
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् नृसिंहं सिंहसङ्काशमहं राममनुव्रता
Verse 36
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् पृथुकीर्तिं महात्मानमहं राममनुव्रता
Verse 37
त्वं पुनर्जम्बुकस्सिंहीं मामिच्छसि सुदुर्लभाम् नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा
Verse 38
पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् राघपस्य प्रियां भार्यां यस्त्वमिच्छसि रावण
Verse 39
क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः आशीविषस्य मुखाद्दंष्ट्रामादातुमिच्छसि
Verse 40
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि
Verse 41
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि  क्षुरम् राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि
Verse 42
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि
Verse 43
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि काल्याणवृत्तां रामस्य यो भार्यांहर्तुमिच्छसि
Verse 44
अयोमुखानां शूलानामग्रे चरितुमिच्छसि रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि
Verse 45
यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिका समुद्रयोः सुराग्र्य सौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य 
Verse 46
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव 
Verse 47
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव 
Verse 48
तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ हृतापि तेहं  जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम्
Verse 49
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी
Verse 50
तां वेपमानामुपलक्ष्य सीतां  रावणो मृत्युसमप्रभावः कुलं बलं नाम  कर्म चात्मनः समाचचक्षे भयकारणार्थम्
0:000:00
Speed: