Book 3 • Chapter 48
Sarga 48
24 verses
Verse 1
एवं बृवन्त्यां सीतायां संरब्दः परुषं वचः ललाटे भृकुटीं कृत्वा रावणः प्रत्युवाच ह
Verse 2
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
Verse 3
यस्य देवास्सगन्धर्वाः पिशाचपतगोरगाः विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः
Verse 4
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः
Verse 5
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः
Verse 6
यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् वीर्यादेवार्जितं भद्रे येन यामि विहायसम्
Verse 7
मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि विद्रवन्ति परित्रस्तास्सुराश्शक्रपुरोगमाः
Verse 8
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः तीव्रांशुश्शिशिरांशुश्च भयात्सम्पद्यते रविः
Verse 9
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च
Verse 10
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
Verse 11
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजता हेमकक्ष्या पुरी रम्या वैढूर्यमयतोरणा
Verse 12
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता सर्वकालफलैर्वृक्षैस्सङ्कुलोद्द्यानशोभिता
Verse 13
तत्र त्वं वसती सीते राजपुत्रि मया सह न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि
Verse 14
भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
Verse 15
स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः मन्दवीर्यस्सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्
Verse 16
तेन किं भ्रष्टराज्येन रामेण गतचेतसा करिष्यसि विशालाक्षि तापसेन तपस्विना
Verse 17
सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
Verse 18
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि चरणेनाभिहत्येव पुरूरवसमूर्वशी
Verse 19
अङ्गुल्या न समो रामो मम युद्धे स मानुषः तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि
Verse 20
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्
Verse 21
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि
Verse 22
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
Verse 23
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् न च रामस्य भार्यां मामपनीयास्ति जीवितम्
Verse 24
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् न मादृशीं राक्षस दूशयित्वा पीतामृतस्यापि तवास्ति मोक्षः
0:000:00
Speed: