🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 49

Sarga 49

41 verses

Verse 1
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवाम् हस्ते हस्तं समाहत्य चकार सुमहद्वपुः
Verse 2
 मैथिलीं पुनर्वाक्यं बभाषे  ततो भृशम् नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
Verse 3
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः आपिबेयं समुद्रं  हन्यां मृत्युं रणे स्थितः
Verse 4
अर्कं ऱुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्या हि महीतलम् कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्
Verse 5
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
Verse 6
सद्यस्सौम्यं परित्यज्य भिक्षुरूपं  रावणः स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः
Verse 7
संरक्तनयनश्श्रीमांस्तप्तकाञ्चनभूषणः क्रोधेन महताविष्टो नीलजीमूतसन्निभः दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः
Verse 8
 परिव्राजकच्छद्म महाकायो विहाय तत् प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
Verse 9
 परिव्राजकच्छद्म महाकायो विहाय तत् प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
Verse 10
 तामसितकेशान्तां भास्करस्य प्रभामिव वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्
Verse 11
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि मामाश्रय वरारोहे तवाहं सदृशः पतिः
Verse 12
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् त्यज्यतां मानुषे भावो मयि भावः प्रणीयताम्
Verse 13
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् त्यज्यतां मानुषे भावो मयि भावः प्रणीयताम्
Verse 14
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः
Verse 15
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः
Verse 16
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः जग्राह रावणस्सीतां बुधः खे रोहिणीमिव
Verse 17
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना
Verse 18
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् प्राद्रवन्गिरिसङ्काशं भयार्ता वनदेवताः
Verse 19
  मायामयो दिव्यः खरयुक्तः खरस्वनः प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः
Verse 20
ततस्तां परुषैर्वाक्यैर्भर्त्सयन्स महास्वनः अङ्केनादाय वैदेहीं रथमारोपयत्तदा
Verse 21
सा गृहीता विचुक्रोश रावणेन यशस्स्विनी रामेति सीता दुःखार्ता रामं दूरगतंवने
Verse 22
तामकामां  कामार्तः पन्नगेन्द्रवधूमिव विवेष्टमानामादाय उत्पपाताथ रावणः
Verse 23
ततस्सा राक्षसेन्द्रेण ह्रियमाणा विहायसा भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा
Verse 24
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ह्रियमाणां  जानीषे रक्षसा माममर्षिणा
Verse 25
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ह्रियमाणामधर्मेण मां राघव  पश्यसि
Verse 26
ननु नामाविनीतानां विनेतासि परन्तप कथमेवंविधं पापं  त्वं शासि हि रावणम्
Verse 27
ननु सद्योऽविनीतस्य दृश्यते कर्मणःफलम् कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये
Verse 28
त्वं कर्म कृतवानेतत्कालोपहतचेतनः जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि
Verse 29
हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः
Verse 30
आमन्त्रये जनस्थाने कर्णिकारान्सुपुष्पितान् क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
Verse 31
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः
Verse 32
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः
Verse 33
दैवतानि  यान्यस्मिन्वने विविधपादपे नमस्करोम्यहं तेभ्योभर्तुश्शंसत मां हृताम्
Verse 34
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत सर्वाणि शरणं यामि मृगपक्षिगणानपि
Verse 35
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् विवशाऽपहृता सीता रावणेनेति शंसत
Verse 36
विदित्वा मां महाबाहुरमुत्रापि महाबलः आनेष्यति पराक्रम्य वैवस्वतहृतामपि
Verse 37
सा तदा करुणा वाचो विलपन्ती सुदुःखिता वनस्पतिगतं गृध्रं ददर्शाऽयतलोचना
Verse 38
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता 3.49.38 समाक्रन्दद्भयपरा दुःखोपहतया गिरा
Verse 39
जटायो पश्य मामद्य ह्रियमाणामनाथवत् अनेन राक्षसेन्द्रेण करुणं पापकर्मणा
Verse 40
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः सत्त्वाञ्जितकाशी  सायुधश्चैव दुर्मतिः
Verse 41
रामाय तु यथातत्त्वं जटायो हरणं मम लक्ष्मणाय  तत्सर्वमाख्यातव्यमशेषतः
0:000:00
Speed: