🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 51

Sarga 51

46 verses

Verse 1
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा क्रुद्धस्याग्निनिभास्सर्वा रेजुर्विंशतिदृष्टयः
Verse 2
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः
Verse 3
 सम्प्रहारस्तुमुल स्तयोस्तस्मिन्महावने बभूव वातोद्धतयोर्मेघयोर्गगने यथा
Verse 4
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा सपक्षयोर्माल्यवतोर्महापर्वतयोरिव
Verse 5
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः
Verse 6
 तानि शरजालानि गृध्रः पत्त्ररथेश्वरः जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे
Verse 7
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः चकार बहुधा गात्रे व्रणान्पतगसत्तमः
Verse 8
अथ क्रोधाद्धशग्रीवो जग्राह दश मार्गणान् मृत्युदण्डनिभान्घोरान्छत्रुमर्दनकाङ्क्षया
Verse 9
 तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैश्शिलीमुखैः
Verse 10
 राक्षसरथे पश्यन्जानकीं बाष्पलोचनाम् अचिन्तयित्वा तान्बाणान्राक्षसं समभिद्रवत्
Verse 11
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः
Verse 12
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्छितः ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः
Verse 13
शरैरावारितस्तस्य संयुगे पतगेश्वरः कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा
Verse 14
 तानि शरवर्षाणि पक्षाभ्यां  विधूयच चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः
Verse 15
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् पक्षाभ्यां  महावीर्यो व्याधुनोत्पतगेश्वरः
Verse 16
काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् तांश्चास्य जवसम्पन्नाञ्जघान समरे बली
Verse 17
वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् मणिहेमविचित्राङ्गं बभञ्ज  महारथम्
Verse 18
पूर्णचन्द्रप्रतीकाशं छत्रं  व्यजनैस्सह पातयामास वेगेन ग्राहिभी राक्षसैस्सह
Verse 19
सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः पुनर्व्यपाहरच्छ्रीमान्पक्षिराजो महाबलः
Verse 20
 भग्नधन्वा विरथो हताश्वो हतसारथिः अङ्केनादाय वैदेहीं पपात भुवि रावणः
Verse 21
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् साधुसाध्विति भूतानि गृध्रराजमपूजयन्
Verse 22
परिश्रान्तं तु तं दृष्टवा जरया पक्षियूथपम् उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः
Verse 23
तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् गृध्रराजस्समुत्पत्य समभिद्रुत्य रावणम् समावार्य महातेजा जटायुरिदमब्रवीत्
Verse 24
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्
Verse 25
समित्रबन्धुस्सामात्यस्सबलस्सपरिच्छदः विषपानं पिबस्येतत्पिपासित इवोदकम्
Verse 26
अनुबन्धमजानन्तः कर्मणामविचक्षणाः शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि
Verse 27
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे वधाय बडिशं गृह्य सामिषं जलजो यथा
Verse 28
 हि जातु दुराधर्षौ काकुत्स्थौ तव रावण धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ
Verse 29
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् तस्कराचरितो मार्गो नैव वीरनिषेवितः
Verse 30
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठरावण शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा
Verse 31
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्
Verse 32
पापानुबन्धो वै यस्य कर्मणः कर्मको नु तत् कुर्वीत लोकाधिपतिस्स्वयंभूर्भगवानपि
Verse 33
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्
Verse 34
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम्
Verse 35
विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् केशांश्चोत्पाटयामास नखपक्षमुखायुधः
Verse 36
 तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः अमर्षस्फुरितोष्ठस्सन्प्राकम्पत  रावणः
Verse 37
 परिष्वज्य  वैदेहीं वामेनाङ्केन रावणः तलेनाभिजघानाशु जटायुं क्रोधमुर्छीतः
Verse 38
जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः वामबाहून्दश तदा व्यपाहरदरिन्दमः
Verse 39
सञ्छिन्नबाहोस्सद्यैव बाहवस्सहसाभवन् विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः
Verse 40
ततः क्रोधाद्दशग्रीवस्सीतामुत्सृज्य रावणः मुष्टिभ्यां चरणाभ्यां  गृध्रराजमपोथयत्
Verse 41
ततो मुहूर्तं सङ्ग्रामो बभूवातुल्यवीर्ययोः राक्षसानां  मुख्यस्य पक्षिणां प्रवरस्य 
Verse 42
तस्य व्यायच्छमानस्य रामस्यार्थे  रावणः पक्षौ पार्श्वौ  पादौ  खड्गमुद्धृत्य सोऽच्छिनत्
Verse 43
 च्छिन्नपक्षस्सहसा रक्षसा रौद्रकर्मणा निपपात हतो गृद्रो धरण्यामल्पजीवितः
Verse 44
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता
Verse 45
तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्
Verse 46
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् पुनः परिश्वज्य शशिप्रभानना रुरोद सीता जनकात्मजातदा
0:000:00
Speed: