Book 3 • Chapter 52
Sarga 52
44 verses
Verse 1
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् गृध्रराजं विनिहतं विललाप सुदुःखिता
Verse 2
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते
Verse 3
नूनं राम न जानासि महद्व्यसनमात्मनः धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः
Verse 4
अयं हि पापचारेण मां त्रातुमभिसङ्गतः शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः
Verse 5
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके
Verse 6
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् अभ्यधावत् वैदेहीं रावणो राक्षसाधिपः
Verse 7
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः क्रोशन्तीं राम रामेति रामेण रहितां वने जीवितान्ताय केशेषु जग्राहान्तकसन्निभः
Verse 8
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः क्रोशन्तीं राम रामेति रामेण रहितां वने जीवितान्ताय केशेषु जग्राहान्तकसन्निभः
Verse 9
प्रधर्षितायां सीतायां बभूव सचराचरम् जगत्सर्वममर्यादं तमसान्धेन संवृतम् न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः
Verse 10
दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा कृतं कार्यमिति श्रीमान्व्याजहार पितामहः
Verse 11
प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया
Verse 12
प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया
Verse 13
स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च जगामादाय चाकाशं रावणो राक्षसाधिपः
Verse 14
तप्ताभरणजुष्टाङ्गी पीतकौशेयवासिनी रराजराजपुत्री तुविद्युत्सौदामिनी यथा
Verse 15
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना
Verse 16
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्
Verse 17
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् बभौ चादित्यरागेण ताम्रमभ्रमिवातपे
Verse 18
तस्यास्तत्सुनसं वक्त्रमाकाशे रावणाङ्कगम् न रराज विना रामं विनालमिव पङ्कजम्
Verse 19
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् शुक्लैस्सुविमलैर्दन्तै प्रभावद्भिरलङ्कृतम् तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् रुदितं व्यपमृष्टास्रं चन्द्रवत्प्रियदर्शनम् सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्
Verse 20

Verse 21

Verse 22
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम् शुशुभे न विना रामंदिवा चन्द्र इवोदितः
Verse 23
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता
Verse 24
सा पद्मगौरी हेमाभा रावणं जनकात्मजा विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा
Verse 25
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः बभौ सचपलो नीलस्सघोष इव तोयदः
Verse 26
उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिस्समन्ततः सीताया ह्रिममाणायाः पपात धरणीतले
Verse 27
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः समाधूता दशग्रीवं पुनरेवाभ्यवर्तत
Verse 28
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्
Verse 29
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम्
Verse 30
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी
Verse 31
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा जहाराऽकाशमाविस्य सीतां वैश्रवणानुजः
Verse 32
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्
Verse 33
तस्यास्स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता
Verse 34
उत्पातवाताभिहता नानाद्विजगणायुताः माभैरिति विधूताग्रा व्याजह्रुरिव पादपाः
Verse 35
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम्
Verse 36
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः
Verse 37
जलप्रपातास्रमुखाश्शृङ्गैरुच्छ्रितबाहुभिः सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः
Verse 38
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः प्रतिध्वस्तप्रभश्श्रीमानासीत्पाण्डरमण्डलः
Verse 39
नास्ति धर्मः कुतस्सत्यं नार्जवं नानृशंसता यत्र रामस्य वैदेहीं भार्यां हरति रावणः इति सर्वाणि भूतानि गणशः पर्यदेवयन्
Verse 40
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः
Verse 41
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्
Verse 42
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् जहारात्म विनाशाय दशग्रीवो मनस्स्विनीम्
Verse 43
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् जहारात्म विनाशाय दशग्रीवो मनस्स्विनीम्
Verse 44
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्राभयभारपीडिता
0:000:00
Speed: