Book 3 • Chapter 53
Sarga 53
26 verses
Verse 1
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा दुःखिता परमोद्विग्ना भये महति वर्तिनी
Verse 2
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत्
Verse 3
न व्यपत्रपसे नीच कर्मणानेन रावण ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे
Verse 4
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ममापवाहितो भर्ता मृगरूपेण मायया
Verse 5
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम
Verse 6
परमं खलु ते वीर्यं दृश्यते राक्षसाधम विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया
Verse 7
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे स्त्रियाश्च हरणं नीच रहिते च परस्य च
Verse 8
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः
Verse 9
धिक्ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम्
Verse 10
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि
Verse 11
न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्
Verse 12
न त्वं तयोश्शरस्पर्शं सोढुं शक्तः कथञ्चन वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः
Verse 13
साधु कुर्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि
Verse 14
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि व्यवसायस्स ते नीच भविष्यति निरर्थकः
Verse 15
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम्
Verse 16
न नूनं चात्मनः पथ्यं श्रेयो वा समवेक्षसे मृत्युकाले यथा मर्त्यो विपरीतानि सेवते
Verse 17
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते पश्याम्यद्य हि कण्ठेत्वां कालपाशावपाशितम्
Verse 18
यथा चास्मिन्भयस्थाने न बिभेषि दशानन व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान्
Verse 19
नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् असिपत्रवनं चैव भीमं पश्यसि रावण
Verse 20
तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्
Verse 21
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः
Verse 22
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण क्वगतो लप्स्यसे शर्म भर्तुर्मम महात्मनः
Verse 23
निमेषान्तरमात्रेण विना भ्रात्रा महावने राक्षसा निहता येन सहस्राणि चतुर्दश स कथं राघवो वीरस्सर्वास्त्रकुशलो बली न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्
Verse 24
निमेषान्तरमात्रेण विना भ्रात्रा महावने राक्षसा निहता येन सहस्राणि चतुर्दश स कथं राघवो वीरस्सर्वास्त्रकुशलो बली न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्
Verse 25
तच्चान्यच्च परुषं वैदेही रावणाङ्कगा भयशोकसमाविष्टा करुणं विललाप ह
Verse 26
तथा भृशार्तां बहुचैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् जहार पापः करुणं विचेष्टतीं नृपात्मजामागतगात्रवेपथुम्
0:000:00
Speed: