Book 3 • Chapter 54
Sarga 54
30 verses
Verse 1
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान्
Verse 2
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् उत्तरीयं वरारोहा शुभान्याभरणानि च मुमोच यदि रामाय शंसेयुरिति मैथिली
Verse 3
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्
Verse 4
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः
Verse 5
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः
Verse 6
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्
Verse 7
वनानि सरितश्शैलांत्सरांसि च विहायसा स क्षिप्रं समतीयाय शरश्चापादिव च्युतः
Verse 8
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् सरितां शरणं गत्वा समतीयाय सागरम्
Verse 9
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः वैदेह्यां ह्रियमाणायां बभूव वरुणालयः
Verse 10
अन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्
Verse 11
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः
Verse 12
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्
Verse 13
तत्र तामसितापाङ्गां शोकमोहपरायणाम् निदधे रावणस्सीतां मयो मायामिवस्त्रियम्
Verse 14
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः
Verse 15
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा
Verse 16
या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्
Verse 17
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् निष्क्रम्यान्तः पुरात्तस्मात्किंकृत्यमिति चिन्तयन् ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्
Verse 18
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् निष्क्रम्यान्तः पुरात्तस्मात्किंकृत्यमिति चिन्तयन् ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्
Verse 19
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः
Verse 20
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः जनस्थानं हतस्थानं भूतपूर्वं खरालयम्
Verse 21
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः
Verse 22
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् सदूषणखरं युद्धे हतं रामेण सायकैः
Verse 23
तत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते वैरं च सुमहज्जातं रामं प्रति सुदारुणम्
Verse 24
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्
Verse 25
तं त्विदानीमहं हत्वा खरदूषणघातिनम् रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः
Verse 26
जनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता प्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः
Verse 27
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति
Verse 28
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः
Verse 29
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः
Verse 30
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः
0:000:00
Speed: