Book 3 • Chapter 55
Sarga 55
37 verses
Verse 1
सन्दिश्य राक्षसान्घोरान् रावणोऽष्टौ महाबलान् आत्मानं बुद्धिवैक्लब्यात्कृतकृत्यममन्यत
Verse 2
स चिन्तयानो वैदेहीं कामबाणसमर्पितः प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्
Verse 3
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम्
Verse 4
अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् अधोमुखमुखीं सीतामभ्येत्य च निशाचरः तां तु शोकपरां दीनामवशां राक्षसाधिपः स बलाद्दर्शयामास गृहं देवगृहोपमम्
Verse 5

Verse 6

Verse 7
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् दान्तकैस्तापनीयैश्च स्फाटिकै राजतैरपि वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्
Verse 8

Verse 9
सोपानं काञ्चनं चित्रमारुरोह तया सह दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः हेमजालावताश्चासन्स्तत्र प्रासादपङ्क्तयः
Verse 10
सोपानं काञ्चनं चित्रमारुरोह तया सह दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः हेमजालावताश्चासन्स्तत्र प्रासादपङ्क्तयः
Verse 11
सुधामणिविचित्राणि भूमिभागानि सर्वशः दशग्रीवस्स्वभवने प्रादर्शयत मैथिलीम्
Verse 12
दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः रावणो दर्शयामास सीतां शोकपरायणाम्
Verse 13
दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया
Verse 14
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् वर्जयित्वा जरावृद्धान्बालांश्च रजनीचरान्
Verse 15
सहस्रमेकमेकस्य मम कार्यपुरस्सरम् यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी
Verse 16
सहस्रमेकमेकस्य मम कार्यपुरस्सरम् यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी
Verse 17
बहूनांस्त्रीसहस्राणां मम योऽसौ परिग्रहः तासां त्वमीश्वरा सीते मम भार्या भव प्रिये
Verse 18
साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम भजस्वमाभितप्तस्य प्रसादं कर्तुमर्हसि
Verse 19
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः
Verse 20
न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्
Verse 21
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा किं करिष्यसि रामेण मानुषेणाल्पतेजसा
Verse 22
भजस्व सीते मामेव भर्ताहं सदृशस्तव यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह
Verse 23
दर्शने माकृथा बुद्धिं राघवस्य वरानने कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः
Verse 24
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः दीप्यमानस्य वाप्यग्नेर्गृहीतुं विमलां शिखाम्
Verse 25
त्रयाणामपि लोकानां न तं पश्यामि शोभने विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्
Verse 26
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः
Verse 27
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् दुष्कृतं यत्परा कर्म वनवासेन तद्गतम् यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि
Verse 28
इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि भूषणानि च मुख्यानि सेवस्व च मया सह
Verse 29
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे विमानं सूर्यसङ्काशं तरसा निर्जितं मया
Verse 30
विशालं रमणीयं च तद्विमानमनुत्तम् तत्र सीते मया सार्धं विहरस्व यथासुखम्
Verse 31
वदनं पद्मसङ्काशममलं चारुदर्शनम् शोकार्तंतु वरारोहे न भ्राजति वरानने
Verse 32
एवं वदति तस्मित्सा वस्त्रान्तेन वराङ्गना पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत्
Verse 33
ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् उवाच वचनं पापो रावणो राक्षसेश्वरः
Verse 34
अलं व्रीडेन वैदेहि धर्मलोपकृतेन च आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति
Verse 35
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मिते
Verse 36
इमाश्शून्य मया वाचश्शुष्यमाणेन भाषिताः न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह
Verse 37
एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् कृतान्तवशमापन्नो ममेयमिति मन्यते
0:000:00
Speed: