Book 3 • Chapter 56
Sarga 56
36 verses
Verse 1
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
Verse 2
राजा दशरथो नाम धर्मसेतुरिवाचलः सत्यसन्धः परिज्ञातो यस्य पुत्रस्सराघवः
Verse 3
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम
Verse 4
इक्ष्वाकूणां कुले जातस्सिंहस्कन्धो महाद्युतिः लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान्हरिष्यति
Verse 5
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् शयिता त्वं हतस्संख्ये जनस्थाने यथा खरः
Verse 6
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः राघवे निर्विषास्सर्वे सुपर्णे पन्नगा यथा
Verse 7
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः
Verse 8
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे
Verse 9
स ते जीवितशेषस्य राघवोऽन्तकरो बली पशोर्यूपगतस्येव जीवितं तव दुर्लभम्
Verse 10
यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा रक्षस्त्वमद्य निर्धग्धो गच्छेस्सद्यः पराभवम्
Verse 11
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा सागरं शोषयेद्वापि स सीतां मोचयेदिह
Verse 12
गतायुस्त्वं गतश्रीको गतसत्त्व गतेन्द्रियः लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति
Verse 13
न ते पापमिदं कर्म शुखोदर्कं भविष्यति याऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने
Verse 14
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके
Verse 15
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् अपनेष्यति गात्रेभ्यश्शरवर्षेण संयुगे
Verse 16
यदा विनाशो भूतानां दृश्यते कालचोदितः तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः
Verse 17
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम आत्मनो राक्षसानां च वधायान्तःपुरस्य च
Verse 18
न शक्या यज्ञमध्यस्था वेदी सृग्भाण्डमण्डिता द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम्
Verse 19
तथाऽहं धर्मनित्यस्य धर्मपत्नी पतिव्रता त्वया स्पृष्टुं न शक्यास्मि राक्षसाधम पापिना
Verse 20
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा हंसी सा तृणषण्डस्थं कथं पश्येत मद्गुकम्
Verse 21
इदं शरीरं निस्संज्ञं बन्ध वा खातयस्व वा नेदं शरीरं रक्षयं मे जीवितं वापि राक्षस न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः
Verse 22
एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः रावणं मैथिली तत्र पुनर्नोवाच किञ्चन
Verse 23
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् प्रत्युवाच ततस्सीतां भयसन्दर्शनं वचः
Verse 24
शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि कालेनानेन नाभ्येषि यदि मां चारुहासिनि ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
Verse 25
शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि कालेनानेन नाभ्येषि यदि मां चारुहासिनि ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
Verse 26
इत्युक्त्वा परुषं वाक्यं रावणश्शत्रुरावणः राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्
Verse 27
शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः
Verse 28
वचनादेव तास्तस्य सुघोरा राक्षसीगणाः कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्
Verse 29
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्
Verse 30
अशोकवनिकामध्ये मैथिली नीयतामियम् तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता
Verse 31
तत्रैनां तर्जनैर्घोरैः पुनस्सान्त्वैश्च मैथिलीम् आनयध्वं वशं सर्वा वन्यां गजवधूमिव
Verse 32
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु सर्वकालफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् सर्वकालमदैश्चापि द्विजैस्समुपसेविताम्
Verse 33
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु सर्वकालफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् सर्वकालमदैश्चापि द्विजैस्समुपसेविताम्
Verse 34
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा
Verse 35
शोकेन महता ग्रस्ता मैथिली जनकात्मजा न शर्म लभते भीरुः पाशबद्धा मृगी यथा
Verse 36
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता पतिं स्मरन्ती दयितं च देवतं विचेतनाऽभूद्भयशोकपीडिता
0:000:00
Speed: