Book 3 • Chapter 58
Sarga 58
19 verses
Verse 1
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
Verse 2
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः
Verse 3
राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः क्व सा दुःखसहाया मे वैदेही तनुमध्यमा
Verse 4
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् क्व सा प्राणसहाया मे सीता सुरसुतोपमा
Verse 5
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण तां विना तपनीयाभां नेच्छेयं जनकात्मजाम्
Verse 6
कच्चिज्जीवति वैदेहि प्राणैः प्रियतरा मम कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति
Verse 7
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि कच्चित्सकामा सुखिता कैकेयी सा भविष्यति
Verse 8
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी उपस्थास्यतिकौसल्या कच्चित्सौम्य न केकयीम्
Verse 9
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः सुवृत्ता यदि वृत्ता प्राणांस्त्यक्ष्यामि लक्ष्मण
Verse 10
यदि मामाश्रमगतं वैदेही नाभिभाषते पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण
Verse 11
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी
Verse 12
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः
Verse 13
सर्वदा रक्षसा तेन जिह्मेन सुदुरात्मना वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्
Verse 14
श्रुतस्तु शङ्के वैदेह्या स स्वरस्सदृशो मम त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः
Verse 15
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरं
Verse 16
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः तैस्सीता निहता घोरैर्भविष्यति न संशयः 3.58.16
Verse 17
अहोऽस्मिन् व्यसने मग्नस्सर्वथा शत्रुसूदन किं न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्
Verse 18
इति सीतां वरारोहां चिन्तयन्नेव राघवः आजगाम जनस्थानं त्वरया सह लक्ष्मणः
Verse 19
विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च विनिश्श्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव
0:000:00
Speed: