🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 59

Sarga 59

27 verses

Verse 1
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः
Verse 2
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् यदा सा तव विश्वासाद्वने विरहिता मया
Verse 3
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः
Verse 4
स्फुरते नयनं सव्यं बाहुश्च हृदयं  मे दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि
Verse 5
एवमुक्तन्तु सौमित्रिर्लक्ष्मणश्शुभलक्षणः भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्
Verse 6
 स्वयं कामकारेण तां त्यक्त्वाहमिहागतः प्रचोदित स्तयैवोग्रैस्त्वत्सकाशमिहागतः
Verse 7
आर्येणेव पराक्रुष्टं हासीते लक्ष्मणेति  परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्
Verse 8
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली गच्छ गच्छेति मामाह रुदन्ती भयविह्वला
Verse 9
प्रचोद्यमानेन मया गच्छेति बहुशस्तया प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् 3.59.9
Verse 10
 तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम्
Verse 11
विगर्हितं  नीचं  कथमार्योऽभिधास्यति त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि
Verse 12
किं निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने
Verse 13
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति  भवत्या व्यथा कार्या कुनारीजनसेविता
Verse 14
अलं वैक्लब्यमालम्ब्य स्वस्था भव निरुत्सुका  सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे जातो वा जायमानो वा संयुगे यः पराजयेत्  जय्यो राघवो युद्धे देवैश्शक्रपुरोगमैः
Verse 15
अलं वैक्लब्यमालम्ब्य स्वस्था भव निरुत्सुका  सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे जातो वा जायमानो वा संयुगे यः पराजयेत्  जय्यो राघवो युद्धे देवैश्शक्रपुरोगमैः
Verse 16
एवमुक्ता तु वैदेही परिमोहितचेतना उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः
Verse 17
भावो मयि तवात्यर्थं पाप एव निवेशितः विनष्टे भ्रातरि प्राप्तुं   त्वं मामवाप्स्यसि
Verse 18
सङ्केताद्भरतेन त्वं रामं समनुगच्छसि क्रोशन्तं हि यथात्यर्थं नैवमभ्यवपद्यसे
Verse 19
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे
Verse 20
एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः
Verse 21
एवं ब्रुवाणं सौमित्रिं रामस्सन्तापमोहितः अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः
Verse 22
जानन्नपि समर्थं मां रक्षसां विनिवारणे अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान्
Verse 23
 हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् क्रुद्धायाः परुषं श्रुत्वा तां विहाय त्वमागतः
Verse 24
सर्वथा त्वविनीतं ते सीतया यत्प्रचोदितः क्रोधस्य वशमापन्नो नाकरोश्शासनं मम
Verse 25
असौ हि राक्षसश्शेते शरेणाभिहतो मया मृगरूपेण येनाहमाश्रमादपवाहितः
Verse 26
विकृष्य चापं परिधाय सायकं सलीलबाणेन  ताडितो मया मार्गीं तनुं त्यज्य  विक्लबस्वरो बभूव केयूरधरस्सराक्षसः
Verse 27
शराहतेनैव तदार्तया गिरा स्वरं समालम्ब्य सुदूरसुश्रवम् उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्
0:000:00
Speed: