Book 3 • Chapter 60
Sarga 60
38 verses
Verse 1
भृशमाव्रजमानस्य तस्याधो वामलोचनम् प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्य जायत
Verse 2
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः अपि क्षेमं नु सीताया इति वै व्याजहार च
Verse 3
त्वरमाणो जगामाथ सीतादर्शनलालसः शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः
Verse 4
उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः तत्र तत्रोटजस्थानमभिवीक्षय समन्ततः ददर्श पर्णशालां च रहितां सीतया तदा श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव
Verse 5
उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः तत्र तत्रोटजस्थानमभिवीक्षय समन्ततः ददर्श पर्णशालां च रहितां सीतया तदा श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव
Verse 6
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् विप्रकीर्णाजिनकुशं विप्रविद्धब्रुसीकटम् दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः
Verse 7
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् विप्रकीर्णाजिनकुशं विप्रविद्धब्रुसीकटम् दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः
Verse 8
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति निलीनाप्यथवा भीरुरथवा वनमाश्रिता
Verse 9
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः अथवा पद्मिनीं याता जलार्थं वा नदीं गता
Verse 10
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् शोकरक्तेक्षणश्शोकादुन्मत्त इव लक्ष्यते
Verse 11
वृक्षाद्वृक्षं प्रधावन्सगिरेश्चाद्रिं नदान्नदीम् बभूव विलपन्रामश्शोकार्णवपरिप्लुतः
Verse 12
अपि काचित्त्वया दृष्टा सा कदम्बप्रिया प्रिया कदम्ब यदि जानीषे शंस सीतां शुभाननाम्
Verse 13
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी
Verse 14
अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् जनकस्य सुता भीरुर्यदि जीवति वा न वा
Verse 15
ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः
Verse 16
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्
Verse 17
अशोक शोकापनुद शोकोपहतचेतसम् त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम्
Verse 18
यदि ताल त्वया दृष्टा पक्वतालफलस्तनी कथयस्व वरारोहां कारुण्यं यदि ते मयि
Verse 19
यदि दृष्टा त्वया सीता जम्बु जम्बूफलोपमा प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे
Verse 20
अहो त्वं कर्णिकाराद्य सुपुष्पैश्शोभसे भृशम् कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि
Verse 21
चूतनीपमहासालान्पनसान्कुरवान्धवान् दाडिमाननसान्गत्वा दृष्ट्वा रामो महायशाः मल्लिका माधवीश्चैव चम्पकान्केतकीस्तथा पृच्छन्रामो वने भान्तः उन्मत्त इव लक्ष्यते
Verse 22
चूतनीपमहासालान्पनसान्कुरवान्धवान् दाडिमाननसान्गत्वा दृष्ट्वा रामो महायशाः मल्लिका माधवीश्चैव चम्पकान्केतकीस्तथा पृच्छन्रामो वने भान्तः उन्मत्त इव लक्ष्यते
Verse 23
अथवा मृगशाबाक्षीं मृग जानासि मैथिलीम् मृगविप्रेक्षणी कान्ता मृगीभिस्सहिता भवेत्
Verse 24
गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् तां मन्ये विदितां तुभ्यमाख्याहि वरवारण 3.60.24
Verse 25
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना मैथिली मम विस्रब्धं कथयस्व न ते भयम्
Verse 26
किं धावसि प्रिये दूरे दृष्टासि कमलेक्षणे वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे
Verse 27
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे
Verse 28
पीतकौशेयकेनासि सूचिता वरवर्णिनि धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्
Verse 29
नैव सा नूनमथवा हिंसिता चारुहासिनी कृच्छ्रप्राप्तं न मां नूनं यथोपेक्षितुमर्हति
Verse 30
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः विभज्याङ्कानि सर्वाणि मया विरहिता प्रिया
Verse 31
नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम् पूर्णचन्द्रनिभं ग्रस्तं मुखंनिष्प्रभतां गतम्
Verse 32
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा
Verse 33
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
Verse 34
मया विरहिता बाला रक्षसां भक्षणाय वै सार्धेनेव परित्यक्ता भक्षिता बहुबान्धवा
Verse 35
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
Verse 36
इत्येवं विलपन्रामः परिधावन्वनाद्वनम् क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः
Verse 37
स वनानि नदीश्शैलान् गिरिप्रस्रवणानि च काननानि च वेगेन भ्रमत्यपरिसंस्थितः
Verse 38
तथा स गत्वा विपुलम् महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति अनिष्ठिताशस्सचकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्
0:000:00
Speed: