Book 3 • Chapter 61
Sarga 61
32 verses
Verse 1
दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः रहितां पर्णशालां च विध्वस्तान्यासनानि च अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ
Verse 2
दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः रहितां पर्णशालां च विध्वस्तान्यासनानि च अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ
Verse 3
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया
Verse 4
वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्
Verse 5
यैस्सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः
Verse 6
सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण मृतं शोकेन महता सीताहरणजेन माम् परलोके महाराजो नूनं द्रक्ष्यति मे पिता
Verse 7
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः अपूरयित्वा तं कालं मत्सकाशमिहागतः कामवृत्तमनार्यं मां मृषावादिनमेव च धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता
Verse 8
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः अपूरयित्वा तं कालं मत्सकाशमिहागतः कामवृत्तमनार्यं मां मृषावादिनमेव च धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता
Verse 9
विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः
Verse 10
विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः
Verse 11
इतीव विलपन्रामस्सीतादर्शनलालसः न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्
Verse 12
अनासादयमानं तं सीतां दशरथात्मजम् पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया
Verse 13
अनासादयमानं तं सीतां दशरथात्मजम् पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया
Verse 14
मा विषादं महाबाहो कुरु यत्नं मया सह इदं च हि वनं शूर बहुकन्दरशोभितम्
Verse 15
प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्
Verse 16
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् स्नातुकामा निलीना स्याद्धासकामा वने क्वचित्
Verse 17
वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ तस्याह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे
Verse 18
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः
Verse 19
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः सह सौमित्रिणा रामो विचेतुमुपचक्रमे
Verse 20
तौ वनानि गिरींश्चैव सरितश्च सरांसि च निखिलेन विचिन्वानौ सीतां दशरथात्मजौ
Verse 21
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च निखिलेन विचिन्वानौ नैव तामभिजग्मतुः
Verse 22
विचित्य सर्वतश्शैलं रामो लक्ष्मणमब्रवित् नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्
Verse 23
ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम्
Verse 24
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्
Verse 25
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः उवाच दीनया वाचा दुःखाभिहतचेतनः
Verse 26
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्
Verse 27
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्
Verse 28
एवं स विलपन्रामस्सीताहरणकर्शितः दीनश्शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्
Verse 29
सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः निषसादातुरो दीनो निश्श्वस्याशीतमायतम्
Verse 30
बहुलं स तु निश्श्वस्य रामो राजीवलोचनः हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः
Verse 31
तं ततस्सान्त्वयामास लक्ष्मणः प्रियबान्धवः बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः
Verse 32
अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः
0:000:00
Speed: