🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 62

Sarga 62

21 verses

Verse 1
सीतामपश्यन्धर्मात्मा शोकोपहतचेतनः विललाप महाबाहू रामः कमललोचनः
Verse 2
पश्यन्निव  तां सीतामपश्यन्मदनार्दितः उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्
Verse 3
त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये आवृणोषि शरीरं ते मम शोकविवर्धिनी
Verse 4
कदलीस्कन्धसदृशौ कदल्या संवृतावुभौ ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्
Verse 5
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे अलं ते परिहासेन मम बाधावहेन वै
Verse 6
परिहासेन किं सीते परिश्रान्तस्य मे प्रिये अयं  परिहासोऽपि साधु देवि  रोचते
Verse 7
विशेषेणाश्रमस्थाने हासोऽयं  प्रशस्यते अवगच्छामि ते शीलं परिहासप्रियं प्रिये आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव
Verse 8
सुव्यक्तं राक्षसैस्सीता भक्षिता वा हृतापि वा  हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण
Verse 9
एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः
Verse 10
हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि हा सकामा त्वया देवी कैकेयी सा भविष्यति
Verse 11
सीतया सह निर्यातो विना सीतामुपागतः कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः
Verse 12
निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति कातरत्वं प्रकाशं हि सीतापनयनेन मे
Verse 13
निवृत्तवनवासश्च जनकं मिथिलाधिपम् कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्
Verse 14
विदेहराजो नूनं मां दृष्ट्वा विरहितं तया सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति
Verse 15
अथवा  गमिष्यामि पुरीं भरतपालिताम् स्वर्गोऽपि सीतया हीनश्शून्य एव मतो मम
Verse 16
मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम्  त्वहं तां विना सीतां जीवेयं हि कथञ्चन
Verse 17
गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम्
Verse 18
अम्बा  मम कैकेयी सुमित्रा  त्वया विभो कौसल्या  यथान्यायमभिवाद्या ममाऽज्ञया रक्षणीया प्रयत्नेन भवता सूक्तकारिणा
Verse 19
अम्बा  मम कैकेयी सुमित्रा  त्वया विभो कौसल्या  यथान्यायमभिवाद्या ममाऽज्ञया रक्षणीया प्रयत्नेन भवता सूक्तकारिणा
Verse 20
सीतायाश्च विनाशोऽयं मम चामित्रकर्शन विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्
Verse 21
इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव
0:000:00
Speed: