🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 63

Sarga 63

20 verses

Verse 1
 राजपुत्रः प्रियया विहीनः शोकेन मोहेन  पीड्यमानः विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्
Verse 2
 लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्श्वस्य रुदंत्सशोकम्
Verse 3
 मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् शोकेन शोको हि परम्पराया मा मेति भिन्दन्हृदयं मनश्च
Verse 4
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि
Verse 5
राज्यप्रणाशस्स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि
Verse 6
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निस्सहसा प्रदीप्तः
Verse 7
सा नूनमार्या मम राक्षसेन बलाद्दृता खं समुपेत्य भीरुः अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्
Verse 8
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः
Verse 9
तच्छलक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् रक्षोवशं नूनमुपागताया  भ्राजते राहुमुखे यथेन्दुः
Verse 10
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि
Verse 11
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा नूनं निनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा
Verse 12
अस्मिन्मयासार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्
Verse 13
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्
Verse 14
पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता तदप्ययुक्तं  हि सा कदाचिन्मया विना गच्छति पङ्कजानि
Verse 15
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् वनं प्रयाता नु तदप्ययुक्त मेकाकिनी सातिबिभेति भीरुः
Verse 16
आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम्
Verse 17
लोकेषु सर्वेषु  नास्ति किञ्चिद्यत्ते  नित्यं विदितं भवेत्तत् शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा
Verse 18
इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम् उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं  वाक्यम्
Verse 19
शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः उत्साहवन्तो हि नरा  लोके सीदन्ति कर्मस्वतिदुष्करेषु
Verse 20
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः  चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत्
0:000:00
Speed: