Book 3 • Chapter 64
Sarga 64
75 verses
Verse 1
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् अपि गोदावरीं सीता पद्मान्यानयितुं गता
Verse 2
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा नदीं गोदावरीं रम्यां जगाम लघुविक्रमः
Verse 3
तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे
Verse 4
कं नु वा देशमापन्ना वैदेही क्लेशनाशिनी न ह्यहं वेद तं देशं यत्र सा जनकात्मजा
Verse 5
लक्ष्मणस्य वचश्श्रुत्वा दीनस्सन्तापमोहितः रामस्समभिचक्राम स्वयं गोदावरीं नदीम् स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
Verse 6
लक्ष्मणस्य वचश्श्रुत्वा दीनस्सन्तापमोहितः रामस्समभिचक्राम स्वयं गोदावरीं नदीम् स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
Verse 7
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति न तां शशंसू रामाय तथा गोदावरी नदि
Verse 8
ततः प्रचोदिता भूतैश्शंसास्मैतां प्रियामिति न तु साभ्यवदतसितां पृष्टा रामेण शोचता
Verse 9
रावणस्य तु तद्रूपं कर्माणि च दुरात्मनः ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्
Verse 10
निराशस्तु तया नद्या सीताया दर्शने कृतः उवाच रामस्सौमित्रिं सीतादर्शनकर्शितः
Verse 11
एषा गोदावरी सौम्य किंचिन्न प्रति भाषते किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः मातरं चैव वैदेह्या विना तामहमप्रियम्
Verse 12
या मे राज्यविहीनस्य वने वन्येन जीवतः सर्वं व्यपनयेच्छोकं वैदेही क्व नु सा गता
Verse 13
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः
Verse 14
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् सर्वाण्यनुगमिष्यामि यदि सीता हि दृश्यते
Verse 15
एते मृगा महावीर्य मामीक्षन्ते मुहुर्मुहुः वक्तुकामा इव हि मे इङ्गितान्युपलक्षये
Verse 16
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह क्व सीतेति निरीक्षन्वै बाष्पसंरुद्धया दृशा
Verse 17
एवमुक्ता नरेन्द्रेण ते मृगास्सहसोत्थिताः दक्षिणाभिमुखास्सर्वे दर्शयन्तो नभस्थलम् मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्
Verse 18
एवमुक्ता नरेन्द्रेण ते मृगास्सहसोत्थिताः दक्षिणाभिमुखास्सर्वे दर्शयन्तो नभस्थलम् मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम्
Verse 19
येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः
Verse 20
तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् उवाच लक्ष्मणो ज्येष्ठं धीमान्भ्रातरमार्तवत्
Verse 21
क्व सितेति त्वया पृष्टा यथेमे सहसोत्थिताः दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः साधु गच्छावहे देव दिशमेतां हि नैऋतिम् यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते
Verse 22
क्व सितेति त्वया पृष्टा यथेमे सहसोत्थिताः दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः साधु गच्छावहे देव दिशमेतां हि नैऋतिम् यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते
Verse 23
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् लक्ष्मणानुगतश्शीमन्वीक्षमाणो वसुन्धराम्
Verse 24
एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ वसुन्धरायां पतितं पुष्पमार्गमपश्यताम्
Verse 25
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः
Verse 26
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण पिनद्धानि हि वैदेह्या मया दत्तानि कानने
Verse 27
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्
Verse 28
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्
Verse 29
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी रामा रम्ये वनोद्देशे मया विरहिता त्वया
Verse 30
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
Verse 31
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
Verse 32
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति शंसन्निव ततस्सीतां नादर्शयत राघवे
Verse 33
ततो दाशरथी राम उवाच च शिलोच्चयम् मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि असेव्यः सततं चैव निस्तृणद्रुमपल्लवः
Verse 34
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम्
Verse 35
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ
Verse 36
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ
Verse 37
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् सम्भ्रान्तहृदयो रामश्शशंस भ्रातरंप्रियम्
Verse 38
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् सम्भ्रान्तहृदयो रामश्शशंस भ्रातरंप्रियम्
Verse 39
पश्य लक्ष्मण वैदेह्याशशीर्णाः कनकबिन्दवः भूषणानां हि सौमित्रे माल्यानि विविधानि च
Verse 40
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् 3.64.40
Verse 41
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः भित्वाभित्वा विभक्ता वा भक्षिता वा भविष्यति
Verse 42
तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह
Verse 43
मुक्तामणिमयं चेदं तपनीयविभूषितम् धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः
Verse 44
तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्
Verse 45
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम्
Verse 46
काञ्चनोरश्छदा श्चेमे पिशाचवदनाः खराः भीमरूपा महाकायाः कस्य वा निहता रणे
Verse 47
दीप्तपावकसङ्काशो द्युतिमान्समरध्वजः अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः
Verse 48
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः
Verse 49
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण प्रतोदाभीशुहस्तो वै कस्यायं सारथिर्हतः
Verse 50
कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ
Verse 51
पदवीपुरुषस्यैषा व्यक्तं कस्यापि रक्षसः वैरं शतगुणं पश्य ममेदं जीवितान्तकम्
Verse 52
सुघोरहृदयैस्सौम्य राक्षसैः कामरूपिभिः हृता मृता वा सीता सा भक्षिता वा तपस्विनी नधर्मस्त्रायते सीतां ह्रियमाणां महावने
Verse 53
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण के हि लोके प्रियं कर्तुं शक्तास्सौम्य ममेश्वराः
Verse 54
कर्तारमपि लोकानां शूरं करुणवेदिनम् अज्ञानादवमन्येरत्सर्वभूतानि लक्ष्मण
Verse 55
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः
Verse 56
मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण अद्यैव सर्वभूतानां रक्षसामभवाय च संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते
Verse 57
मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण अद्यैव सर्वभूतानां रक्षसामभवाय च संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते
Verse 58
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लिक्ष्मण
Verse 59
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्
Verse 60
सन्निरुद्धग्रहगणमावारितनिशाकरम् विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा
Verse 61
सन्निरुद्धग्रहगणमावारितनिशाकरम् विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा
Verse 62
सन्निरुद्धग्रहगणमावारितनिशाकरम् विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा
Verse 63
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्
Verse 64
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम्
Verse 65
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण
Verse 66
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्
Verse 67
मम रोषप्रयुक्तानां सायकानां बलं सुराः द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्
Verse 68
नैव देवा न दैतेया न पिशाचा न राक्षसाः भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते
Verse 69
देवदानवयक्षाणां लोका ये रक्षसामपि बहुधा न भविष्यन्ति बाणौघैश्शकलीकृताः
Verse 70
निर्मर्यादानिमान्लोकान्करिष्याम्यद्य सायकैः हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः
Verse 71
तथारुपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम्
Verse 72
इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् शरमादाय सन्दीप्तं घोरमाशीविषोपमम् सन्धाय धनुषि श्रीमान्रामः परपुरञ्जयः युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्
Verse 73
इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् शरमादाय सन्दीप्तं घोरमाशीविषोपमम् सन्धाय धनुषि श्रीमान्रामः परपुरञ्जयः युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्
Verse 74
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा
Verse 75
पुरेव मे चारुदंतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम्
0:000:00
Speed: