🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 65

Sarga 65

16 verses

Verse 1
तप्यमानं तथा रामं सीताहरणकर्शितम् लोकानामभवे युक्तं सांवर्तकमिवानलम् वीक्षमाणं धनुस्सज्यं निश्श्वसन्तं पुनः पुनः दग्धुकामं जगत्सर्वं युगान्ते  यथा हरम् अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता
Verse 2

Verse 3

Verse 4
पुरा भूत्वा मृदुर्दान्तस्सर्वभूतहिते रतः  क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि
Verse 5
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा एतत्तु नियतं सर्वं त्वयि चानुत्तमं यशः
Verse 6
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि  तु जानामि कस्यायं भग्नस्साङ्ग्रामिको रथः केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः
Verse 7
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्धुभिः देशो निर्वृत्तसङ्ग्रामस्सुघोरः पार्थिवात्मज
Verse 8
एकस्य तु विमर्धोऽयं  द्वयोर्वदतांवर  हि वृत्तं हि पश्यामि बलस्य महतः पदम्
Verse 9
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः
Verse 10
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः को नु दारप्रणाशं ते साधु मन्येत राघव
Verse 11
सरितस्सागराश्शैला देवगन्धर्वदानवाः नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः
Verse 12
येन राजन्हृता सीता तमन्वेषितुमर्हसि मद्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः
Verse 13
समुद्रं  विचेष्यामः पर्वतांश्च वनानि  गुहाश्च विविधा घोरा नदी पद्मवनानि 
Verse 14
देवगन्धर्वलोकांश्च विचेष्यामस्समाहिताः यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्
Verse 15
 चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि
Verse 16
शीलेन साम्ना विनयेन सीतां नयेन  प्राप्स्यसि चेन्नरेन्द्र ततस्समुत्सादय हेमपुङ्खै र्महेन्द्रवज्रप्रतिमैश्शरौघैः
0:000:00
Speed: