🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 66

Sarga 66

19 verses

Verse 1
तं तथा शोकसन्तप्तं विलपन्तमनाथवत् मोहेन महताविष्टं परिद्यूनमचेतनम् ततस्सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः रामं सम्बोधयामास चरणौ चाभिपीडयन्
Verse 2
तं तथा शोकसन्तप्तं विलपन्तमनाथवत् मोहेन महताविष्टं परिद्यूनमचेतनम् ततस्सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः रामं सम्बोधयामास चरणौ चाभिपीडयन्
Verse 3
महता तपसा राम महता चापि कर्मणा राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः
Verse 4
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः राजा देवत्वमापन्नो भरतस्य यथाश्रुतम्
Verse 6
दुःखितो हि भवान्लोकांस्तेजसा यदि धक्ष्यते आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्
Verse 7
लोकस्वभाव एवैष ययातिर्नहुषात्मजः गतश्शक्रेण सालोक्यमनयस्तं समस्पृशत्
Verse 8
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्
Verse 9
या चेयं जगतां माता देवी लोकनमस्कृता अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव
Verse 10
यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम् आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ
Verse 11
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ  दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः
Verse 12
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ श्रूयेते नरशार्दूल  त्वं शोचितुमर्हसि
Verse 13
नष्टायामपि वैदेह्यां हृतायामपि चानघ शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा
Verse 14
त्वव्दिधा  हि शोचन्ति सततं सत्यदर्शिनः सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः
Verse 15
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय बुध्द्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे
Verse 16
अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम् नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते
Verse 17
त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः
Verse 18
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्
Verse 19
दिव्यं  मानुषं  त्वमात्मनश्च पराक्रमम् इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे
Verse 20
किं तेन सर्वनाशेन कृतेन पुरुषर्षभ तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि
0:000:00
Speed: