Book 3 • Chapter 67
Sarga 67
29 verses
Verse 1
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् सारग्राही महासारं प्रतिजग्राह राघवः
Verse 2
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्
Verse 3
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण केनोपायेन गच्छेयं सीतामिति विचिन्तय
Verse 4
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् इदमेव जनस्थानं त्वमन्वेषितुमर्हसि राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्
Verse 5
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च गुहाश्च विविधा घोरा नानामृगगणाकुलाः आवासाः किन्नराणां च गन्धर्वभवनानि च
Verse 6
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च गुहाश्च विविधा घोरा नानामृगगणाकुलाः आवासाः किन्नराणां च गन्धर्वभवनानि च
Verse 7
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः
Verse 8
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः क्रुद्धो रामश्शरं घोरं सन्धाय धनुषि क्षुरम्
Verse 9
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्
Verse 10
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् अनेन सीता वैदेही भक्षिता नात्र संशयः
Verse 11
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः
Verse 12
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः
Verse 13
इत्युक्त्वाभ्यपतद्गृध्रं सन्धाय धनुषि क्षुरम् क्रुद्धो रामस्समुद्रान्तां कम्पयन्निव मेदिनीम्
Verse 14
तं दीनं दीनया वाचा सफेनं रुधिरं वमन् अभ्यभाषत पक्षी तु रामं दशरथात्मजम्
Verse 15
यामोषधिमिवायुष्मन्नन्वेषसि महावने सा देवी मम च प्राणा रावणेनोभयं हृतम्
Verse 16
त्वया विरहिता देवी लक्ष्मणेन च राघव ह्रियमाणा मया दृष्टा रावणेन बलीयसा
Verse 17
सीतामभ्यवपन्नोऽहं रावणश्च रणे मया विध्वंसितरथश्चात्र पातितो धरणीतले
Verse 18
एतदस्य धनुर्भग्नमेतदस्य शरावरम् अयमस्य रथो राम भग्नसाङ्ग्रामिको मया
Verse 19
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः सीतामादाय वैदेहीमुत्पपात विहायसम् रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि
Verse 20
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः सीतामादाय वैदेहीमुत्पपात विहायसम् रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि
Verse 21
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा द्विगुणीकृततापार्तस्सीतासक्तां प्रियां कथाम्
Verse 22
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः निपपातावशो भूमौ रुरोद सहलक्ष्मणः
Verse 23
एकमेकायने दुर्गे निश्श्वसन्तं कथञ्चन समीक्ष्य दुःखिततरो रामस्सौमित्रिमब्रवीत्
Verse 24
राज्यं भ्रष्टं वने वासस्सीता नष्टा हतो द्विजः ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्
Verse 25
सम्पूर्णमपि चेदद्य प्रविशेयं महोदधिम् सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितांपतिः
Verse 26
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे येनेयं महती प्राप्ता मया व्यसनवागुरा
Verse 27
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः शेते विनिहतो भूमौ मम भाग्यविपर्ययात्
Verse 28
इत्येवमुक्त्वा बहुशो राघवस्सहलक्ष्मणः जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन्
Verse 29
निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ
0:000:00
Speed: