🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 68

Sarga 68

38 verses

Verse 1
रामस्सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्
Verse 2
ममायं नूनमर्थेषु यतमानो विहङ्गमः राक्षसेन हतस्संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान्
Verse 3
अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते तथा हि स्वरहीनोऽयं विक्लबस्समुदीक्ष्यते
Verse 4
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः
Verse 5
किं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया
Verse 6
कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम
Verse 7
कथं वीर्यः कथं रूपः किं कर्मा   राक्षसः क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः
Verse 8
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् वाचातिसन्नया रामं जटायुरिदमब्रवीत्
Verse 9
हृता सा राक्षसेन्द्रेण रावणेन विहायसा मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम्
Verse 10
परिश्रान्तस्य मे तात पक्षौ छित्वा  राक्षसः सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्
Verse 11
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्
Verse 12
येन याति मुहूर्तेन सीतामादाय रावणः विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते विन्दो नाम मुहूर्तोऽयं   काकुत्स्थ नाबुधत्
Verse 13
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति
Verse 14
  त्वया व्यथा कार्या जनकस्य सुतां प्रति वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे
Verse 15
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्
Verse 16
पुत्रो विश्रवसस्साक्षाद्भ्राता वैश्रवणस्य  इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः
Verse 17
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः त्वक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्
Verse 18
 निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा विक्षिप्य  शरीरं स्वं पपात धरणीतले
Verse 19
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् रामस्सुबहुभिर्दुःखैर्दीनस्सौमित्रिमब्रवीत्
Verse 20
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा
Verse 21
अनेकवार्षिको यस्तु चिरकालसमुत्थितः सोऽयमद्य हतश्शेते कालो हि दुरतिक्रमः
Verse 22
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे सीतामभ्यवपन्नो वै रावणेन बलीयसा
Verse 23
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् मम हेतोरयं प्राणान्मुमोच पतगेश्वरः
Verse 24
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः शूराश्शरण्यास्सौमित्रे तिर्यग्योनिगतेष्वपि
Verse 25
सीताहरणजं दुःखं  मे सौम्य तथाविधम् यथा विनाशे गृध्रस्य मत्कृते  परन्तप
Verse 26
राजा दशरथश्श्रीमान्यथा मम महायशाः पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः
Verse 27
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्
Verse 28
नाथं पतगलोकस्य चितामारोप्य राघव इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
Verse 29
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः अपरावर्तिनां या  या  भूमिप्रदायिनाम् मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् गृध्रराज महासत्त्व संस्कृतश्च मया व्रज
Verse 30
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः अपरावर्तिनां या  या  भूमिप्रदायिनाम् मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् गृध्रराज महासत्त्व संस्कृतश्च मया व्रज
Verse 31
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः
Verse 32
रामोऽथ सहसौमित्रिर्वनं गत्वा  वीर्यवान् स्थूलान्हत्वा महारोहीननुतस्तार तं द्विजम्
Verse 33
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः शकुनाय ददौ रामो रम्ये हरितशाद्वले
Verse 34
यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप 
Verse 35
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ
Verse 36
शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा
Verse 37
 गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः महर्षिकल्पेन  संस्कृतस्तदा जगाम पुण्यां गतिमात्मनश्शुभाम्
Verse 38
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां  बुद्धिं प्रणिधाय जग्मतुः प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्रविव विष्णुवासवौ
0:000:00
Speed: