Book 3 • Chapter 69
Sarga 69
51 verses
Verse 1
कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्
Verse 2
तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः
Verse 3
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्
Verse 4
व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् सुभीमं तन्महारण्यं व्यतियातौ महाबलौ
Verse 5
ततः परं जनस्थानातत्रिक्रोशं गम्य राघवौ क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ
Verse 6
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम् दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ
Verse 7
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम् दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ
Verse 8
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरा दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् ननासत्त्वसमाकीर्णं सर्वं गहनपादपम् ददृशाते तु तौ तत्र दरीं दशरथात्मजौ पातालसमगम्भीरां तमसा नित्यसंवृताम्
Verse 9

Verse 10

Verse 11
आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः ददृशाते महारूपां राक्षसीं विकृताननाम्
Verse 12
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम् प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ
Verse 13
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम् प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ
Verse 14
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम्
Verse 15
उवाच चैनं वचनं सौमित्रिमुपगूह्य सा अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः नाथ पर्वतकूटेषु नदीनां पुलिनेषु च आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे
Verse 16
उवाच चैनं वचनं सौमित्रिमुपगूह्य सा अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः नाथ पर्वतकूटेषु नदीनां पुलिनेषु च आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे
Verse 17
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः कर्णनासास्तनं तस्या निचकर्तारिसूदनः
Verse 18
कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च यथागतं प्रदुद्राव राक्षसी भीमदर्शना
Verse 19
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ
Verse 20
लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्
Verse 21
स्पन्दते च दृढं बाहुरुद्विग्नमिव मे मनः प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये
Verse 22
तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ममैव हि निमित्तानि सद्यश्शंसन्ति सम्भ्रमम्
Verse 23
एष वञ्चुलको नाम पक्षी परमदारुणः आवयोर्विजयं युद्धे शंसन्निव विनर्दति
Verse 24
तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा संजज्ञे विपुलः शब्दो प्रभञ्जन्निव तद्वनम्
Verse 25
संवेष्टितमिवात्यर्थं गगनं मातरिश्वना वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव
Verse 26
तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ददर्श सुमहाकायं राक्षसं विपुलोदरम्
Verse 27
आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम्
Verse 28
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोछ्रितम् नीलमेघनिभं रौद्रं मेघस्तनितनिस्वनम्
Verse 29
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता महापक्ष्मेण पिङ्गेन विपुलेनायतेन च एकेनोरसि घोरेण नयनेनाशुदर्शिना महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम्
Verse 30
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता महापक्ष्मेण पिङ्गेन विपुलेनायतेन च एकेनोरसि घोरेण नयनेनाशुदर्शिना महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम्
Verse 31
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ
Verse 32
कराभ्यां विविधान्गृह्यऋक्षान्पक्षिगणान्मृगान् आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः
Verse 33
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः महान्तं दारुणं भीमं कबन्धं भुजसंवृम् कबन्धमिव संस्थानादतिघोरप्रदर्शनम्
Verse 34
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः महान्तं दारुणं भीमं कबन्धं भुजसंवृम् कबन्धमिव संस्थानादतिघोरप्रदर्शनम्
Verse 35
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ जग्राह सहितावेव राघवौ पीडयन्बलात्
Verse 36
खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ
Verse 37
तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे उवाच स विषण्णस्सन्राघवं राघवानुजः
Verse 38
पश्य मां वीर विवशं राक्षसस्य वशं गतम् मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव
Verse 39
मां हि भूतबलिं दत्वा पलायस्व यथासुखम् अधिगन्तासि वैदेहीमचिरेणेति मे मतिः
Verse 40
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् तत्र मां राम राज्यस्थस्स्मर्तुमर्हसि सर्वदा
Verse 41
लक्ष्मणेनैवमुक्तस्तु रामस्सौमित्रिमब्रवीत् मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति
Verse 42
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः
Verse 43
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ
Verse 44
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः
Verse 45
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः
Verse 46
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
Verse 47
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्
Verse 48
कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ
Verse 49
नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः
Verse 50
नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः
Verse 51
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत्
0:000:00
Speed: