🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 70

Sarga 70

18 verses

Verse 1
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्
Verse 2
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ
Verse 3
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा उवाचाऽर्तिं समापन्नो विक्रमे कृतलक्षणः
Verse 4
त्वां  मां  पुरा तूर्णमादत्ते राक्षसाधमः तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू
Verse 5
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति
Verse 6
निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः क्रतुमध्योपनीतानां पशूनामिव राघव
Verse 7
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः विदार्याऽस्यं तदा रौद्रस्तौ भक्षयितुमारभत्
Verse 8
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ अच्छिन्दतां सुसंविग्नौ बाहू तस्यांसदेशतः
Verse 9
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः
Verse 10
 पपात महाबाहुश्छिन्नबाहुर्महास्वनः खं  गां  दिशश्चैव नादयञ्जलदो यथा
Verse 11
 निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः
Verse 12
इति तस्य ब्रुवाणस्य लक्ष्मणश्शुभलक्षणः शशंस राघवं तस्य कबन्धस्य महात्मनः
Verse 13
अयमिक्ष्वाकुदायादो रामो नाम जनैश्श्रुतः अस्यैवावरजं विद्दि भ्रातरं मां  लक्ष्मणम्
Verse 14
अस्य देवप्रभावस्य वसतो विजने वने रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ
Verse 15
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
Verse 16
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः उवाच परमप्रीत स्तदिन्द्रवचनं स्मरन्
Verse 17
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
Verse 18
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा तन्मे शृणु नरव्याघ्र तत्त्वतश्शंसतस्तव
0:000:00
Speed: