🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 71

Sarga 71

33 verses

Verse 1
पुरा राम महाबाहो महाबलपराक्रम रूपमासीन्ममा चिन्त्यं त्रिषु लोकेषु विश्रुतम् यथा सोमस्य शक्रस्य सूर्यस्य  यथा वपुः
Verse 2
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ऋषीन्वनगतान्राम त्रासयामि ततस्ततः
Verse 3
ततस्स्थूलशिरा नाम महर्षिः कोपितो मया सञ्चिन्वन्विविधं वन्यं रूपेणानेन धर्षितः
Verse 4
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना एतदेव नृशंसं ते रूपमस्तु विगर्हितम्
Verse 5
 मया याचितः क्रुद्धश्शापस्योन्तो भवेदिति अभिशापकृतस्येति तेनेदं भाषितं वचः
Verse 6
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्
Verse 7
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे
Verse 8
अहं हि तपसोग्रेण पितामहमतोषयम् दीर्घमायुस्स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्
Verse 9
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्
Verse 10
तस्य बाहुप्रयुक्तेन वज्रेण शतपर्वणा सक्थिनी चैव मूर्धा  शरीरे सम्प्रवेशितम्
Verse 11
 मया याच्यमानस्सन्नानयद्यमसादनम् पितामहवचस्सत्यं तदस्त्विति ममाब्रवीत्
Verse 12
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्
Verse 13
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ प्रादादास्यं  मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्
Verse 14
सोऽहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वने चरान् सिंहव्दिपमृगव्याघ्रान् भक्षयामि समन्ततः
Verse 15
 तु मामब्रवीदिन्द्रो यदा रामस्सलक्ष्मणः छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि
Verse 16
अनेन वपुषा राम वनेऽस्मिन्राजसत्तम यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये
Verse 17
अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः
Verse 18
 त्वं रामोऽसि भद्रं ते नाहमन्येन राघव शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा
Verse 19
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना
Verse 20
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः
Verse 21
रावणेन हृता भार्या मम सीता यशस्स्विनी निष्क्रान्तस्य जनस्थानात्सहभ्रात्रा यथासुखम्
Verse 22
नाममात्रं तु जानामि  रूपं तस्य रक्षसः निवासं वा प्रभावं वा वयं तस्य  विद्महे
Verse 23
शोकार्तानामनाथानामेवं विपरिधावताम् कारुण्यं सदृशं कर्तुमुपकारे  वर्तताम्
Verse 24
काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते
Verse 25
 त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः
Verse 26
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्
Verse 27
दिव्यमस्ति  मे ज्ञानं नाभिजानामि मैथिलीम् यस्तां ज्ञास्यति तं वक्ष्ये दग्धस्स्वं रूपमास्थितः
Verse 28
अदग्धस्य तु विज्ञातुं शक्तिरस्ति  मे प्रभो राक्षसं तं महावीर्यं सीता येन हृता तव
Verse 29
विज्ञानं हि मम भ्रष्टं शापदोषेण राघव स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्
Verse 30
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः तावन्मामवटे क्षिप्त्वा दह राम यथाविधि
Verse 31
दग्धस्त्वयाहमवटे न्यायेन रघुनन्धन वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम्
Verse 32
तेन सख्यं  कर्तव्यं न्याय्यवृत्तेन राघव कल्पयिष्यति ते प्रीतस्साहाय्यं लघुविक्रमः
Verse 33
 हि तस्यास्त्यविज्ञातं त्रिषु लेकेषु राघव सर्वान्परिसृतो लोकान्पुरासौ कारणान्तरे
0:000:00
Speed: