Book 3 • Chapter 73
Sarga 73
45 verses
Verse 1
निदर्शयित्वा रामाय सीतायाः प्रतिपादने वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्
Verse 2
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्धुकाः अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः धन्वना नागवृक्षाश्च तिलका नक्तमालकाः नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः
Verse 3

Verse 4

Verse 5
तानारुह्याथवा भूमौ पातयित्वा च तान्बलात् फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः
Verse 6
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् नन्दनप्रतिमं चान्यत्कुरवो ह्युत्तरा इव
Verse 7
सर्वकालफला यत्र पादपास्तु मधुस्रवाः सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा
Verse 8
फलभारानतास्तत्र महाविटपधारिणः शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः
Verse 9
तानारुह्याथवा भूमौ पातयित्वा यथासुखम् फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति
Verse 10
चङ्क्रमन्तौ वरान्देशान्शैलाच्छैलं वनाद्वनम् ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः
Verse 11
अशर्करामविभ्रंशां समतीर्थामशैवलाम् राम सञ्जातवालूकां कमलोत्पलशालिनीम्
Verse 12
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव वल्गुस्वना विकूजन्ति पम्पासलिलगोचराः
Verse 13
नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाश्शुभाः घृतपिण्डोपमान् स्थूलांस्तान्द्विजान्भक्षयिष्यथः
Verse 14
रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् तव भक्त्या समायुक्तो लक्ष्मणस्सम्प्रदास्यति
Verse 15
रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् तव भक्त्या समायुक्तो लक्ष्मणस्सम्प्रदास्यति
Verse 16
भृशते खादतो मत्स्यान्पम्पायाः पुष्पसञ्चये पद्मगन्धि शिवं वारि सुखशीतमनामयम् उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति
Verse 17
भृशते खादतो मत्स्यान्पम्पायाः पुष्पसञ्चये पद्मगन्धि शिवं वारि सुखशीतमनामयम् उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति
Verse 18
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः अपां लोभादुपावृत्तान्वृषभानिव नर्दतः रूपावनितांश्च पम्पायांद्रक्ष्यसि त्वं नरोत्तम
Verse 19
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः अपां लोभादुपावृत्तान्वृषभानिव नर्दतः रूपावनितांश्च पम्पायांद्रक्ष्यसि त्वं नरोत्तम
Verse 20
सायाह्ने विचरन्राम विटपीन्माल्यधारिणः शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि
Verse 21
सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् उत्पलानि च फुल्लानि पङ्कजानि च राघव
Verse 22
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः न च वै म्लानतां यान्ति न च शीर्यन्ति राघव
Verse 23
मतङ्गशिष्यास्तत्राऽसन्नृषयस्सुसमाहिताः तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः तानि जातानि माल्यानि मुनीनां तपसा तदा स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
Verse 24
मतङ्गशिष्यास्तत्राऽसन्नृषयस्सुसमाहिताः तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः तानि जातानि माल्यानि मुनीनां तपसा तदा स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
Verse 25
तेषां गतानामद्यापि दृश्यते परिचारिणी श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी
Verse 26
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति
Verse 27
ततस्तद्राम पम्पायास्तीरमासाद्य पश्चिमम् आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि
Verse 28
न तत्राक्रमितुं नागाश्शक्नुवन्ति तमाश्रमम् विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ऋषेस्तत्र मतङ्गस्य विधानात्तच्च काननम्
Verse 29
न तत्राक्रमितुं नागाश्शक्नुवन्ति तमाश्रमम् विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ऋषेस्तत्र मतङ्गस्य विधानात्तच्च काननम्
Verse 30
तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः
Verse 31
ऋष्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः सुदुःखारोहणो नाम शिशुनागाभिरक्षितः उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः
Verse 32
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति
Verse 33
नत्वेनं विषमाचार पापकर्माऽधिरोहति यस्तु तं विषमाचारः पापकर्माऽधिरोहति तत्रैव प्रहऱन्त्येनं सुप्तमादाय राक्षसाः
Verse 34
नत्वेनं विषमाचार पापकर्माऽधिरोहति यस्तु तं विषमाचारः पापकर्माऽधिरोहति तत्रैव प्रहऱन्त्येनं सुप्तमादाय राक्षसाः
Verse 35
तत्रापि शिशुनागानामाक्रन्धश्श्रूयते महान् क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्
Verse 36
सिक्ता रुधिरधाराभिस्संहृत्य परमद्विपाः प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः
Verse 37
ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् निर्वृतास्संविगाहन्ते वनानि वनगोचराः
Verse 38
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् रुरूनपेतापजयान् दृष्ट्वा शोकं जयिष्यसि
Verse 39
राम तस्य तु शैलस्य महती शोभते गुहा शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्
Verse 40
तस्या गुहायाः प्राग्द्वारे महान्शीतोदको ह्रदः फलमूलान्वितो रम्यो नानामृगसमावृतः
Verse 41
तस्यां वसति सुग्रीवश्चतुर्भिस्सह वानरैः कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते
Verse 42
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्
Verse 43
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके
Verse 44
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा
Verse 45
स तत्कबन्धः प्रतिपद्य रूपं वृतश्श्रिया भास्करतुल्यदेहः निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच
0:000:00
Speed: