🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 3 • Chapter 74

Sarga 74

35 verses

Verse 1
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ
Verse 2
तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान्द्रुमान् वीक्षन्तौ जग्मतुर्ध्रष्टुं सुग्रीवं रामलक्ष्मणौ
Verse 3
कृत्वा  शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः
Verse 4
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्
Verse 5
तौ तमाश्रममासाद्य द्रुमैर्बहुभीरावृतम् सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः
Verse 6
तौ  दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः रामस्य पादौ जग्राह लक्ष्मणस्य  धीमतः
Verse 7
पाद्यमाचमनीयं  सर्वं प्रादाद्यथाविधि तामुवाच ततो रामश्श्रमणीं संशितव्रताम्
Verse 8
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः कच्चित्ते नियतः क्रोध आहारश्च तपोधने
Verse 9
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि
Verse 10
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता
Verse 11
अद्य प्राप्ता तपस्सिद्धिस्तव संदर्शनान्मया अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः
Verse 12
अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति त्वयि देववरे राम पूजिते पुरुषर्षभ
Verse 13
चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन गमिष्याम्यक्षयान्लोकांस्त्वत्प्रसादादरिन्दम
Verse 14
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः इतस्ते दिवमारूढा यानहं पर्यचारिषम्
Verse 15
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम्  ते प्रतिग्रहीतव्यस्सौमित्रिसहितोतिथिः तं  दृष्ट्वा वरान्लोकानक्षयांस्त्वं गमिष्यसि
Verse 16
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम्  ते प्रतिग्रहीतव्यस्सौमित्रिसहितोतिथिः तं  दृष्ट्वा वरान्लोकानक्षयांस्त्वं गमिष्यसि
Verse 17
मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्
Verse 18
एवमुक्तस्स धर्मात्मा शबर्या शबरीमिदम् राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्
Verse 19
दनोस्सकाशात्तत्त्वेन प्रभावं ते महात्मनः श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे
Verse 20
एतत्तु वचनं श्रुत्ता रामवक्त्राद्विनिस्सृतम् शबरी दर्शयामास तावुभौ तद्वनं महत्
Verse 21
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् मतङ्गवनमित्येव विश्रुतं रघुनन्दन
Verse 22
इह ते भावितात्मानो गुरवो मे महावने जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्
Verse 23
इयं प्रत्यक्थ्सली वेदिर्यत्र ते मे सुसत्कृताः पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः
Verse 24
तेषां तपःप्रभावेण पश्याद्यापि रघूद्वह द्योतयन्ति दिशस्सर्वाश्श्रिया वेद्योऽतुलप्रभाः
Verse 25
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः चिन्तितेऽभ्यागतान्पश्य सहितान्सप्तसागरान्
Verse 26
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन
Verse 27
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै पुष्पैःकुवलयैस्सार्धं म्लानत्वं नोपयान्तिवै
Verse 28
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं  श्रुतं त्वया तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेबरम्
Verse 29
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् मुनीनामाश्रमो येषामहं  परिचारिणी
Verse 30
धर्मिष्ठं तु वचश्श्रुत्वा राघवस्सहलक्ष्मणः प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः
Verse 31
तामुवाच ततो रामश्श्रमणीं संशितव्रताम् अर्चितोऽहं त्वया भक्त्या गच्छकामं यथासुखम्
Verse 32
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा
Verse 33
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा
Verse 34
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना दिव्याम्बरधरा तत्र बभूव प्रियदर्शना विराजयन्ती तं देशं विद्युत्सौदामिनी यथा
Verse 35
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना
0:000:00
Speed: