🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 1

Sarga 1

50 verses

Verse 1
गच्छता मातुलकुलं भरतेन तदाऽनघ शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः
Verse 2
तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
Verse 3
तत्रापि निवसन्तौ तौ तर्प्यमाणौ  कामतः भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्
Verse 4
राजाऽपि तौ महातेजा स्सस्मार प्रोषितौ सुतौ उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ
Verse 5
सर्व एव तु तस्येष्टा श्चत्वारः पुरुषर्षभाः स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः
Verse 6
तेषामपि महातेजा रामो रतिकरःपितुः स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
Verse 7
 हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः
Verse 8
कौशल्या शुशुभे तेन पुत्रेणामिततेजसा यथा वरेण देवानामदितिर्वज्रपाणिना
Verse 9
 हि रूपोपपन्नश्च वीर्यवाननसूयकः भूमौवनुपमस्सूनुर्गुणैर्दशरथोपमः
Verse 10
 तु नित्यं प्रशान्तात्मा मृदुपूर्वं  भाषते उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते
Verse 11
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति  स्मरत्यपकाराणां शतमप्यात्मवत्तया
Verse 12
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि
Verse 13
बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः वीर्यवान्न  वीर्येण महता स्वेन विस्मितः
Verse 14
नचानृतकथो विद्वान् वृद्धानां प्रतिपूजकः अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते
Verse 15
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवांश्चुचिः
Verse 16
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते मन्यते परया कीर्त्या महत्स्वर्गफलं ततः
Verse 17
नाऽऽश्रेयसि रतो विद्वान्नविरुद्धकथारुचिः उत्तरोत्तरयुक्तौ  वक्ता वाचस्पतिर्यथा
Verse 18
अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् लोके पुरुषसारज्ञ स्साधुरेको विनिर्मितः
Verse 19
 तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः बहिश्चर इव प्राणो बभूव गुणतः प्रियः
Verse 20
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् इष्वस्त्रे  पितु श्श्रेष्ठो बभूव भरताग्रजः
Verse 21
कल्याणाभिजन स्साधुरदीन स्सत्यवागृजुः वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः
Verse 22
धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् लौकिके समयाचारे कृतकल्पो विशारदः
Verse 23
निभृत स्संवृताकारो गुप्तमन्त्र स्सहायवान् अमोघक्रोधहर्षश्च त्यागसंयमकालवित्
Verse 24
दृढभक्ति स्स्थिरप्रज्ञो नासद्ग्राही  दुर्वचाः निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित्
Verse 25
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः
Verse 26
सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य  आयकर्मण्युपायज्ञ स्सन्दृष्टव्ययकर्मवित्
Verse 27
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु  अर्थधमौ  सङ्गृह्य सुखतन्त्रो  चालसः
Verse 28
वैहारिकाणां शिल्पानां विज्ञाताऽऽर्थविभागवित् आरोहे विनये चैव युक्तो वारणवाजिनाम्
Verse 29
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः अभियाता प्रहर्ता  सेनानयविशारदः
Verse 30
अप्रधृष्यश्च सङ्ग्रामे क्रुध्दैरपि सुरासुरैः अनसूयो जितक्रोधो  दृप्तो   मत्सरी  चावमन्ता भूतानां   कालवशानुगः
Verse 31
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः
Verse 32
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः गुणैर्विरुरुचे रामो दीप्तस्सूर्य इवांशुभिः
Verse 33
तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम् लोक पालोपमं नाथमकामयत मेदिनी
Verse 34
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम् दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः
Verse 35
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति
Verse 36
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्
Verse 37
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्
Verse 38
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः
Verse 39
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम्
Verse 40
इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः तं समीक्ष्य महाराजो युक्तं समुदितैश्शुभैः निश्चित्य सचिवैस्सार्धं युवराजममन्यत
Verse 41
इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः तं समीक्ष्य महाराजो युक्तं समुदितैश्शुभैः निश्चित्य सचिवैस्सार्धं युवराजममन्यत
Verse 42
दिव्यन्तरिक्षे भूमौ  घोरमुत्पातजं भयम् स़ञ्चचक्षेऽथ मेधावी शरीरे चात्मनो जराम्
Verse 43
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः
Verse 44
आत्मनश्च प्रजानां  श्रेयसे  प्रियेण  प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः
Verse 45
नानानगरवास्तव्यान्पृथग्जानपदानपि समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन्
Verse 46
 तु केकयराजानं जनकं वा नराधिपः त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्
Verse 47
तान्वेश्मनानाभरणैर्यथाऽर्हं प्रतिपूजितान् ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः
Verse 48
अथोपविष्टे नृपतौ तस्मिन्परबलार्दने ततः प्रविविशु श्शेषा राजानो लोकसम्मताः
Verse 49
अथ राजवितीर्णेषु विविधेष्वासनेषु  राजानमेवाभिमुखाः निषेदुर्नियता नृपाः
Verse 50
सलब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानदैः उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः
0:000:00
Speed: