🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 2

Sarga 2

54 verses

Verse 1
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः हितमुद्धर्षणं चैवमुवाच प्रथितं वचः
Verse 2
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना स्वरेण महता राजा जीमूत इव नादयन् राजलक्षणयुक्तेन कान्तेनानुपमेन  उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्
Verse 3
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना स्वरेण महता राजा जीमूत इव नादयन् राजलक्षणयुक्तेन कान्तेनानुपमेन  उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्
Verse 4
विदितं भवतामेतद्यथा मे राज्यमुत्तमम् पूर्वकैर्मम राजेन्द्रैस्सुतवत्परिपालितम्
Verse 5
सोऽहमिक्ष्वाकुभि स्सर्वैर्नरेन्द्रैः परिपालितम् श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्
Verse 6
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः
Verse 7
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् पाण्डुरस्याऽतपत्रस्यच्छायायां जरितं मया
Verse 8
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये
Verse 9
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्
Verse 10
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान्
Verse 11
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः पुरन्दरसमो वीर्ये रामः परपुरञ्जयः
Verse 12
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् यौवराज्ये नियोक्ताऽस्मि प्रीतः पुरुषपुङ्गवम्
Verse 13
अनुरूपस्स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
Verse 14
अनेन श्रेयसा सद्यस्संयोज्यैवमिमां महीम् गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै
Verse 15
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम् भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्
Verse 16
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया
Verse 17
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः
Verse 18
स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव
Verse 19
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ब्राह्मणा जनमुख्याश्च पौरजानपदै स्सह समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्
Verse 20
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ब्राह्मणा जनमुख्याश्च पौरजानपदै स्सह समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्
Verse 21
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव  रामं युवराजानमभिषिञ्चिस्व पार्थिवम्
Verse 22
इच्छामो हि महाबाहुं रघुवीरं महाबलम् गजेन महताऽयान्तं रामं छत्रावृताननम्
Verse 23
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियं अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्
Verse 24
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ राजान स्संशयोऽयं मे किमिदं ब्रूत तत्त्वतः
Verse 25
कथं नु मयि धर्मेण पृथिवीमनुशासति भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्
Verse 26
ते तमूचुर्महात्मानं पौरजानपदैस्सह बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते
Verse 27
गुणान् गुणवतो देव देवकल्पस्य धीमतः प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु
Verse 28
दिव्यैर्गुणैश्शक्रसमो रामस्सत्यपराक्रमः इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते
Verse 29
राम स्सत्पुरुषो लोके सत्यधर्मपरायणः साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह
Verse 30
प्रजासुखत्त्वे चन्द्रस्य वसुधायाः क्षमागुणैः बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः
Verse 31
धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः
Verse 32
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः प्रियवादी  भूतानां सत्यवादी  राघवः बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता तेनास्येहाऽतुला कीर्तिर्यशस्तेजश्च वर्धते
Verse 33
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः प्रियवादी  भूतानां सत्यवादी  राघवः बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता तेनास्येहाऽतुला कीर्तिर्यशस्तेजश्च वर्धते
Verse 34
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित्
Verse 35
गान्धर्वे  भुवि श्रेष्ठो बभूव भरताग्रजः कल्याणाभिजन स्साधुरदीनात्मा महामतिः
Verse 36
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा गत्वा सौमित्रिसहितो नाऽविजित्य निवर्तते
Verse 37
सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा 2.2.37 पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु  2.2.38 निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान्
Verse 38
सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा 2.2.37 पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु  2.2.38 निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान्
Verse 39
शुश्रूषन्ते   श्शिष्याः कच्चित्कर्मसु दंशिताः इति नः पुरुषव्याघ्र स्सदा रामोऽभिभाषते
Verse 40
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः उत्सवेषु  सर्वेषु पितेव परितुष्यति
Verse 41
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः स्मितपूर्वाभिभाषी  धर्मं सर्वात्मना श्रितः
Verse 42
सम्यग्योक्ता श्रेयसां   विगृह्य कथारुचिः उत्तरोत्तरयुक्तौ  वक्ता वाचस्पतिर्यथा
Verse 43
सुभ्रूः आयतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः
Verse 44
प्रजापालनतत्त्वज्ञो  रागोपहतेन्द्रियः शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम्
Verse 45
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन हन्त्येव नियमाद्वध्यानवध्ये   कुप्यति
Verse 46
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति शान्तै स्सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् गुणैर्विरुरुचे रामो दीप्त स्सूर्य इवांशुभिः
Verse 47
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति शान्तै स्सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् गुणैर्विरुरुचे रामो दीप्त स्सूर्य इवांशुभिः
Verse 48
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् लोकपालोपमं नाथमकामयत मेदिनी
Verse 49
वत्सश्श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः
Verse 50
बलमारोग्यमायुश्च रामस्य विदितात्मनः देवासुरमनुष्येषु सगन्धर्वोरगेषु  आशंसते जनस्सर्वो राष्ट्रे पुरवरे तथा आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः
Verse 51
बलमारोग्यमायुश्च रामस्य विदितात्मनः देवासुरमनुष्येषु सगन्धर्वोरगेषु  आशंसते जनस्सर्वो राष्ट्रे पुरवरे तथा आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः
Verse 52
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातस्समाहिताः सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः
Verse 53
तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्
Verse 54
तं देव देवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभषेक्तुं वरद त्वमर्हसि
0:000:00
Speed: