🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 3

Sarga 3

49 verses

Verse 1
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः
Verse 2
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ
Verse 3
इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् वसिष्ठं वामदेवं  तेषामेवोपशृण्वताम्
Verse 4
चैत्रश्श्रीमानयं मासः पुण्यः पुष्पितकाननः यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्
Verse 5
शनैस्तस्मिन्प्रशान्ते  जनघोषे जनाधिपः वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्
Verse 6
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि
Verse 7
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः आदिदेशाग्रतो राज्ञ स्स्थितान्युक्तान् कृताञ्जलीन्
Verse 8
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी अहतानि  वासांसि रथं सर्वायुधान्यपि चतुरङ्गबलं चैव गजं  शुभलक्षणम् चामरव्यजने श्वेते ध्वजं छत्रं  पाण्डुरम् शतं  शातकुम्भानां कुम्भानाग्निवर्चसाम् हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म  उपस्थापयत प्रातरग्न्यगारं महीपतेः
Verse 9

Verse 10

Verse 11

Verse 12
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य  चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः
Verse 13
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य  चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः
Verse 14
प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम् द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत्
Verse 15
सत्कृत्य द्विजमुख्यानां श्वःप्रभाते प्रदीयताम् घृतं दधि  लाजाश्च दक्षिणाश्चापि पुष्कलाः
Verse 16
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि 
Verse 17
आबध्यन्तां पताकाश्च राजमार्गश्च सिंच्यताम् सर्वे  तालावचरा गणिकाश्च स्वलङ्कृताः कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः
Verse 18
देवायतनचैत्येषुसान्नभक्षा स्सदक्षिणाः उपस्थापयितव्या स्स्युर्माल्ययोग्याः पृथक्पृथक्
Verse 19
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम्
Verse 20
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य 
Verse 21
कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम् यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ
Verse 22
ततस्सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् रामः कृतात्मा भवता शीघ्रमानीयतामिति
Verse 23
 तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम्
Verse 24
अथ तत्र समासीना स्तदा दशरथं नृपम् प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम्
Verse 25
अथ तत्र समासीना स्तदा दशरथं नृपम् प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम्
Verse 26
तेषां मध्ये  राजर्षिर्मरुतामिव वासवः प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्
Verse 27
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् चन्द्रकान्ताननं राममतीव प्रियदर्शनम् रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः  ततर्प समायान्तं पश्यमानो नराधिपः
Verse 28

Verse 29

Verse 30
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् पितुस्समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्
Verse 31
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः आरुरोह नृपं द्रष्टुं सह सूतेन राघवः
Verse 32
 प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः
Verse 33
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्
Verse 34
तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितम् दिदेश राजा रुचिरं रामाय परमासनम्
Verse 35
तदासनवरं प्राप्य व्यदीपयत राघवः स्वयैव प्रभया मेरुमुदये विमलो रविः
Verse 36
तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना
Verse 37
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् अलङ्कृतमिवात्मानमादर्शतलसंस्थितम्
Verse 38
 तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः
Verse 39
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशस्सुतः उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः
Verse 40
यतस्त्वया प्रजाश्चेमा स्स्वगुणैरनुरञ्जिताः तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि
Verse 41
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्
Verse 42
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः कामक्रोधसमुत्थानि त्यजेथा व्यसनानि 
Verse 43
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा अमात्यप्रभृतीस्सर्वाःप्रकृतीश्चानुरञ्जय
Verse 44
कोष्ठागारायुधागारैःकृत्वा सन्निचयान्बहून् तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् तस्यनन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर
Verse 45
कोष्ठागारायुधागारैःकृत्वा सन्निचयान्बहून् तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् तस्यनन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर
Verse 46
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्
Verse 47
सा हिरण्यं  गाश्चैव रत्नानि विविधानि  व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा
Verse 48
अथाऽभिवाद्य राजानं रथमारुह्य राघवः ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः
Verse 49
ते चापि पौरा नृपतेर्वचस्त च्छृत्वा तथा लाभमिवेष्टमाशु नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान्समानर्चुरतिप्रहृष्टाः
0:000:00
Speed: