🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 4

Sarga 4

34 verses

Verse 1
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम् श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः
Verse 2
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम् श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः
Verse 3
अथाऽन्तर्गृहमाविश्य राजा दशरथस्तदा सूतमामन्त्रयामास रामं पुनरिहानय
Verse 4
प्रतिगृह्य  तद्वाक्यं सूतः पुनरुपाययौ रामस्य भवनं शीघ्रं राममानयितुं पुनः
Verse 5
द्वार्स्थैरावेदितं तस्य रामायाऽऽगमनं पुनः श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्
Verse 6
प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः
Verse 7
तमुवाच तत स्सूतो राजा त्वां द्रष्टुमिच्छति श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा
Verse 8
इति सूतवच श्श्रुत्वा रामोऽथ त्वरयाऽन्वितः प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्
Verse 9
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम्
Verse 10
प्रविशन्नेव  श्रीमान्राघवो भवनं पितुः ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः
Verse 11
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्
Verse 12
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः अन्नवद्भिः क्रतुशतै स्तथेष्टं भूरिदक्षिणैः
Verse 13
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि दत्तमिष्टमधीतं  मया पुरुषसत्तम
Verse 14
अनुभूतानि चेष्टानि मया वीर सुखान्यपि देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽत्मनः
Verse 15
 किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि
Verse 16
अद्य प्रकृतयस्सर्वास्त्वामिच्छन्ति नराधिपम् अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक
Verse 17
अपि चाद्याऽशुभान्राम स्वप्ने पश्यामि दारुणान् सनिर्घाता दिवोल्का  पततीह महास्वना
Verse 18
अवष्टब्धं  मे राम नक्षत्रं दारुणैर्ग्रहैः आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः
Verse 19
प्रायेण हि निमित्तानामीदृशानां समुद्भवे राजा हि मृत्युमाप्नोति घोरां वाऽऽपदमृच्छति
Verse 20
तद्यावदेव मे चेतो  विमुह्यति राघव तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः
Verse 21
अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसू श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः
Verse 22
ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परन्तप
Verse 23
तस्मात्त्वयाऽद्य प्रभृति निशेयं नियतात्मना सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना
Verse 24
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः भवन्ति बहु विघ्नानि कार्याण्येवंविधानि हि
Verse 25
विप्रोषितश्च भरतो यावदेव पुरादितः तावदेवाभिषेकस्ते प्राप्तकालो मतो मम
Verse 26
कामं खलु सतां वृत्ते भ्राता ते भरतस्स्थितः ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः
Verse 27
किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः सतां  धर्मनित्यानां कृतशोभि  राघव
Verse 28
इत्युक्त स्सोऽभ्यनुज्ञात श्श्वोभाविन्यभिषेचने व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्
Verse 29
प्रविश्य चात्मनो वेश्मराज्ञोद्दिष्टेऽभिषेचने तत्क्षणेन विनिर्गम्य मातुरन्तपुरं ययौ
Verse 30
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् वाग्यतां देवतागारे ददर्शाऽऽयाचतीं श्रियम्
Verse 31
प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तथा सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्
Verse 32
तस्मिन् काले हि कौशल्या तस्थावामीलितेक्षणा सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन 
Verse 33
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याऽभिषेचनम् प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्
Verse 34
तथा सनियमामेव सोऽभिगम्याभिवाद्य  उवाच वचनं रामो हर्षयंस्तामनिन्दिताम्
0:000:00
Speed: