Book 2 • Chapter 5
Sarga 5
26 verses
Verse 1
सन्दिश्य रामं नृपति श्श्वोभाविन्यभिषेचने पुरोहितं समाहूय वशिष्ठमिदमब्रवीत्
Verse 2
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्
Verse 3
तथेति च स राजानमुक्त्वा वेदविदां वरः स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः
Verse 4
तथेति च स राजानमुक्त्वा वेदविदां वरः स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः
Verse 5
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् तिस्रः कक्ष्या रथेनैव विवेशमुनिसत्तमः
Verse 6
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः मानयिष्यन्समानार्हं निश्चक्राम निवेशनात्
Verse 7
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ततोऽवतारयामास परिगृह्य रथात्स्वयम्
Verse 8
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः
Verse 9
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि उपवासं भवानद्य करोतु सह सीतया
Verse 10
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः पिता दशरथः प्रीत्या ययातिं नहुषो यथा
Verse 11
इत्युक्त्वा स तदा राममुपवासं यतव्रतम् मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः
Verse 12
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
Verse 13
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः सभाजितो विवेशाऽथ ताननुज्ञाप्य सर्वशः
Verse 14
हृष्टनारीनरयुतं रामवेश्म तदा बभौ यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
Verse 15
स राजभवनप्रख्यात्तस्माद्रामनिवेशानात् निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
Verse 16
बृन्दबृन्दैरयोध्यायां राजमार्गास्समन्ततः बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः
Verse 17
जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा बभूव राजमार्गस्य सागरस्येव निस्वनः
Verse 18
सिक्तसम्मृष्टरथ्या हि तदहर्वनमालिनी आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा
Verse 19
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः
Verse 20
प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्
Verse 21
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः व्यूहन्निव जनौघं तं शनै राजकुलं ययौ
Verse 22
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
Verse 23
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्
Verse 24
चैव तदा तुल्यं सहासीनास्सभासदः आसनेभ्यस्समुत्तस्थुः पूजयन्तः पुरोहितम्
Verse 25
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव
Verse 26
तदग्य्रवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् विदीपयंश्चारु विवेश पार्थिव श्शशीव तारागणसङ्कुलं नभः
0:000:00
Speed: