Book 2 • Chapter 6
Sarga 6
28 verses
Verse 1
गते पुरोहिते रामः स्नातो नियतमानसः सह पत्न्या विशालाक्ष्या नारायणमुपागमत्
Verse 2
प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा महते दैवतायाज्यं जुहाव ज्वलितेऽनले
Verse 3
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे वाग्यत स्सह वैदेह्या भूत्वा नियतमानसः श्रीमत्यायतने विष्णो श्शिश्ये नरवरात्मजः
Verse 4
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे वाग्यत स्सह वैदेह्या भूत्वा नियतमानसः श्रीमत्यायतने विष्णो श्शिश्ये नरवरात्मजः
Verse 5
एकयामावशिष्टायां रात्र्यां प्रतिविबुद्ध्य सः अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः
Verse 6
तत्र श्रृण्वन्सुखा वाच स्सूतमागधवन्दिनाम् पूर्वां सध्यामुपासीनो जजाप यतमानसः
Verse 7
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् विमलक्षौमसंवीतो वाचयामास स द्विजान्
Verse 8
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा अयोध्यां पूरयामास तूर्यघोषानुनादितः
Verse 9
कृतोपवासं तु तदा वैदेह्या सह राघवम् अयोध्यानिलयश्श्रुत्वा सर्वः प्रमुदितो जनः
Verse 10
ततः पौरजनस्सर्वश्श्रुत्वा रामाभिषेचनम् प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्
Verse 11
सिताभ्रशिखराभेषु देवतायतनेषु च चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च नानापण्यसमृद्धेषु वणिजामापणेषु च कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ध्वजा स्समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा
Verse 12

Verse 13

Verse 14
नटनर्तकसङ्घानां गायकानां च गायताम् मनः कर्णसुखा वाच श्शुशृवुश्च ततस्ततः
Verse 15
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च
Verse 16
बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः
Verse 17
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने
Verse 18
प्रकाशकरणार्थं च निशागमनशङ्कया दीपवृक्षां स्तथा चक्रुरनु रथ्यासु सर्वशः
Verse 19
अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् समेत्य सङ्घशस्सर्वे चत्वरेषु सभासु च कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्
Verse 20
अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् समेत्य सङ्घशस्सर्वे चत्वरेषु सभासु च कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्
Verse 21
अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति
Verse 22
सर्वेप्यनुगृहीता स्मो यन्नो रामो महीपतिः चिराय भविता गोप्ता दृष्टलोकपरावरः
Verse 23
अनुद्धतमनाः विद्वान्धर्मात्मा भ्रातृवत्सलः यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः
Verse 24
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः यत्प्रसादोनभिषिक्तं तु रामं द्रक्ष्यामहे वयम्
Verse 25
एवंविधं कथयतां पौराणां शुश्रुवु स्तदा दिग्भ्योपि श्रुतवृत्तान्ता: प्राप्ता जानपदा जनाः
Verse 26
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् रामस्य पूरयामासुः पुरीं जानपदा जनाः
Verse 27
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः
Verse 28
ततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः समन्तत स्सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्
0:000:00
Speed: