Book 2 • Chapter 7
Sarga 7
36 verses
Verse 1
ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया
Verse 2
सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत
Verse 3
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् वृतां छन्दपथैश्चापि शिरस्स्नातजनैर्वृताम् माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता
Verse 4

Verse 5

Verse 6

Verse 7
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा
Verse 8
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती राममाता धनं किन्नु जनेभ्यस्सम्प्रयच्छति
Verse 9
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः
Verse 10
विदीर्यमाणा हर्षेण धात्री तु परया मुदा आचचक्षेऽथ कुब्जायै भूयसीं राघव श्रियम्
Verse 11
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् राजा दशरथो राममभिषेचयिताऽनघम्
Verse 12
धात्र्यास्तु वचनं शृत्वा कुब्जा क्षिप्रममर्षिता कैलासशिखराकारा त्प्रासादादवरोहत
Verse 13
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी शयानामेत्य कैकेयीमिदं वचनमब्रवीत्
Verse 14
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते उपप्लुतामौघेन किमात्मानं न बुध्यसे
Verse 15
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे चलं हि तव सौभाग्यं नद्यास्स्रोत इवोष्णगे
Verse 16
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः कुब्जया पापदर्शिन्या विषादमगमत्परम्
Verse 17
कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं नु मन्थरे विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्
Verse 18
मन्थरा तु वच श्श्रुत्वा कैकेय्या मधुराक्षरम् उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा
Verse 19
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी विषादयन्ती प्रोवाच भेदयन्ती च राघवम्
Verse 20
अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति
Verse 21
साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता
Verse 22
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः
Verse 23
नराधिपकुले जाता महिषी त्वं महीपतेः उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
Verse 24
धर्मावादी शठो भर्ता श्लक्ष्णवादी च दारुणः शुद्धभावे न जानीषे तेनैव मतिसन्धिता
Verse 25
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति
Verse 26
उपवाह्य स दुष्टात्मा भरतं तव बन्धुषु काल्ये स्थापयिता रामं राज्ये निहतकण्टके
Verse 27
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया आशीविष इवाङ्केन बाले परिधृतस्त्वया
Verse 28
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता
Verse 29
पापेनानृतसान्त्वेन बाले नित्यसुखोचिते रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि
Verse 30
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने
Verse 31
मन्थाराया वचश्श्रुत्वा शयाना सा शुभानना उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी
Verse 32
अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम्
Verse 33
दत्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम्
Verse 34
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते
Verse 35
रामे वा भरते वाऽहं विशेषं नोपलक्षये तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति
Verse 36
न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचःपरम् तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु
0:000:00
Speed: