Book 2 • Chapter 8
Sarga 8
39 verses
Verse 1
मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत् उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
Verse 2
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे शोकसागरमध्यस्थमात्मानं नावबुध्यसे
Verse 3
मनसा प्रहसामि त्वां देवि दुःखार्दिता सती यच्छोचितव्ये हृष्टाऽसि प्राप्येदं व्यसनं महत्
Verse 4
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् अरेस्सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्
Verse 5
भरतादेव रामस्य राज्यसाधारणाद्भयम् तद्विचिन्त्य विषण्णाऽस्मि भयं भीताऽद्धि जायते
Verse 6
लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा
Verse 7
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः
Verse 8
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्
Verse 9
सुभगा खलु कौशल्या यस्याः पुत्रोऽभिषेक्ष्यते यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
Verse 10
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् उपस्थास्यसि कौसल्यां दासीव त्त्वं कृताञ्जलिः
Verse 11
एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति
Verse 12
हृष्टाः खलु भविष्यन्ति रामस्य परमास्स्त्रियः अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये
Verse 13
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह
Verse 14
धर्मज्ञो गुरुभिर्दान्तः कृतज्ञस्सत्यवाक्छुचिः रामो राज्ञ स्सुतो ज्येष्ठो यौवराज्यमतोऽर्हति
Verse 15
भ्रातृ़न्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति सन्तप्स्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
Verse 16
भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः
Verse 17
सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे भविष्यति च कल्याणे किमर्थं परितप्यसे
Verse 18
यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः कौशल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम्
Verse 19
राज्यं यदि हि रामस्य भरतस्यापि तत्तदा मन्यते हि यथात्मानं तथा भ्रातृ़ंश्च राघवः
Verse 20
कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता दीर्घमुष्णं च विनिश्वस्य कैकेयीमिदमब्रवीत्
Verse 21
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
Verse 22
भविता राघवो राजा राघवस्यानु यस्सुतः राजवंशात्तु कैकेयि भरतःपरिहास्यते
Verse 23
न हि राज्ञस्सुता स्सर्वे राज्ये तिष्ठन्ति भामिनि स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्
Verse 24
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि
Verse 25
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले
Verse 26
साऽहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे सपत्नि वृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि
Verse 27
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् देशान्तरं वा नयिता लोकान्तरमथाऽपि वा
Verse 28
बाल एव हि मातुल्यं भरतो नायितस्त्वया सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि
Verse 29
भरतस्याप्यनुवशश्शत्रुघ्नोऽपि समं गतः लक्ष्मणो हि यथा रामं तथाऽसौ भरतं गतः
Verse 30
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात्
Verse 31
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्
Verse 32
तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति रामस्तु भरते पापं कुर्यादिति न संशयः
Verse 33
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः एतद्धि रोचते मह्यं भृशं चापि हितं तव
Verse 34
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यसि
Verse 35
स ते सुखोचितो बालो रामस्य सहजो रिपुः समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
Verse 36
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि
Verse 37
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया राममाता सपत्नी ते कथं वैरं न शातयेत्
Verse 38
यदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकरशैलपत्तनाम् तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि
Verse 39
यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रणष्टो भरतो भविष्यति अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम्
0:000:00
Speed: