Book 2 • Chapter 9
Sarga 9
66 verses
Verse 1
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना दीर्घमुष्णं विनिश्वस्य मन्थरामिदमब्रवीत्
Verse 2
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये
Verse 3
इदं त्विदानीं सम्पश्य केनोपायेन मन्थरे भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन
Verse 4
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
Verse 5
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
Verse 6
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि
Verse 7
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम्
Verse 8
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकेयी किञ्चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्
Verse 9
कथय त्वं ममोपायं केनोपायेन मन्थरे भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन
Verse 10
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्
Verse 11
तव दैवासुरे युद्धे सह राजर्षिभिः पतिः अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः
Verse 12
तव दैवासुरे युद्धे सह राजर्षिभिः पतिः अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः
Verse 13
स शम्बर इति ख्यातश्शतमायो महासुरः ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः
Verse 14
तस्मिन्महति सङ्ग्रामे पुरुषान्क्षतविक्षतान् रात्रौ प्रसुप्तान्घ्नन्ति स्म तरसाऽऽसाद्य राक्षसाः
Verse 15
तत्राकरोन्महद्युद्धं राजा दशरथस्तदा असुरैश्च महाबाहुश्शस्त्रैश्च शकलीकृतः
Verse 16
अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः तत्रापि विक्षतश्शस्त्रैः पतिस्ते रक्षितस्त्वया
Verse 17
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना
Verse 18
अनभिज्ञाम्ह्यहं देवि त्वयैव कथिता पुरा कथैषा तव तु स्नेहान्मनसा धार्यते मया रामाभिषेकसम्भारान्निगृह्य विनिवर्तय
Verse 19
अनभिज्ञाम्ह्यहं देवि त्वयैव कथिता पुरा कथैषा तव तु स्नेहान्मनसा धार्यते मया रामाभिषेकसम्भारान्निगृह्य विनिवर्तय
Verse 20
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश
Verse 21
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् प्रजाभावगतस्नेहस्स्थिरः पुत्रो भविष्यति
Verse 22
क्रोधागारं प्रविश्याऽद्य क्रुद्धेवाश्वपतेस्सुते शेष्वाऽनन्तर्हितायां त्वं भूमौ मलिनवासिनी
Verse 23
मास्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा
Verse 24
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः त्वत्कृते स महाराजो विशेदपि हुताशनम्
Verse 25
न त्वां क्रोधयितुं शक्तो न क्रृद्धां प्रत्युदीक्षितुम् तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्
Verse 26
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः
Verse 27
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च दद्याद्दशरथो राजा मास्म तेषु मनः कृथाः
Verse 28
यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् तौ स्मारय महाभागे सोऽर्थो न त्वामतिक्रमेत्
Verse 29
यदातु ते वरं दद्यात्स्वयमुत्थाप्य राघवः व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्
Verse 30
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः
Verse 31
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः
Verse 32
रामप्रव्राजनं चैव देवि याचस्व तं वरम् एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि
Verse 33
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति भरतश्च हतामित्रस्तव राजा भविष्यति
Verse 34
येन कालेन रामश्च वनात्प्रत्यागमिष्यति तेन कालेन पुत्रस्ते कृतमूलो भविष्यति सुगृहीतमनुष्यश्च सुहृद्भिस्सार्धमात्मवान्
Verse 35
प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा रामाभिषेकसङ्कल्पान्निगृह्य विनिवर्तय
Verse 36
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्
Verse 37
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता कैकेयी विस्मयं प्राप्ता परं परमदर्शना
Verse 38
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिथायिनीम् पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये
Verse 39
त्वमेव तु ममाऽर्थेषु नित्ययुक्ता हितैषिणी नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्
Verse 40
सन्ति दुस्संस्थिताः कुब्जा वक्राः परमदारुणाः त्वं पद्ममिव वातेन सन्नता प्रियदर्शना त्वं पद्ममिव वातेन सन्नता प्रियदर्शना
Verse 41
उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात् समुन्नतं अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम्
Verse 42
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ विमलेन्दुसमं वक्त्रमहोराजसि मन्थरे
Verse 43
जघनं तव निर्घुष्टं रशनादामशोभितम् जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ
Verse 44
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी अग्रतो मम गच्छन्ती राजहंसीव राजसे
Verse 45
आसन्याश्शम्बरे मायास्सहस्रमसुराधिपे सर्वास्त्वयि निविष्टास्ता भूयश्चान्यास्सहस्रशः
Verse 46
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते
Verse 47
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् अभिषिक्ते च भरते राघवे च वनं गते
Verse 48
जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु
Verse 49
मुखे च तिलकं चित्रं जातरूपमयं शुभम् कारयिष्यामि ते कुब्जे शुभान्याभरणानि च
Verse 50
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्
Verse 51
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्
Verse 52
तवापि कुब्जाः कुब्जायास्सर्वाभरणभूषिताः पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
Verse 53
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् शयानां शयने शुभ्रे वेद्यामग्निशिखामिव
Verse 54
गतोदके सेतुबन्धो न कल्याणि विधीयते उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय
Verse 55
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता अनेकशतसाहस्रं मुक्ताहारं वराङ्गना अवमुच्य वरार्हाणि शुभान्याभरणानि च ततो हेमोपमा तत्र कुब्जावाक्यवशं गता संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
Verse 56
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता अनेकशतसाहस्रं मुक्ताहारं वराङ्गना अवमुच्य वरार्हाणि शुभान्याभरणानि च ततो हेमोपमा तत्र कुब्जावाक्यवशं गता संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
Verse 57
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता अनेकशतसाहस्रं मुक्ताहारं वराङ्गना अवमुच्य वरार्हाणि शुभान्याभरणानि च ततो हेमोपमा तत्र कुब्जावाक्यवशं गता संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
Verse 58
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्
Verse 59
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
Verse 60
अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्
Verse 61
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते
Verse 62
तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः निधायहस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः
Verse 63
यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति
Verse 64
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम् न किञ्चिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम्
Verse 65
अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी
Verse 66
उदीर्णसंरम्भतमोवृतानना तथाऽवमुक्तोत्तममाल्यभूषणा नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका
0:000:00
Speed: