🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 10

Sarga 10

40 verses

Verse 1
विदर्शिता यदा देवी कुब्जया पापया भृशम् तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी
Verse 2
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी मन्थरायै शनैस्सर्वमाचचक्षे विचक्षणा
Verse 3
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता नागकन्येव निश्वस्य दीर्घमुष्णं  भामिनी मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्
Verse 4
सा सुहृच्चार्थकामा  तं निशम्य सुनिश्चयम् बभूव परमप्रीता सिध्दिं प्राप्येव मन्थरा
Verse 5
अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् संविवेशाबला भूमौ निवेश्य भृकुटीं मुखे
Verse 6
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि  अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे
Verse 7
तया तान्यपविद्धानि माल्यान्याभरणानि  अशोभयन्त वसुधां नक्षत्राणि यथा नभः
Verse 8
क्रोधागारे निपतिता सा बभौ मलिनाम्बरा एकवेणीं दृढं बद्वा गतसत्त्वेव किन्नरी
Verse 9
आज्ञाप्य  महाराजो राघवस्याभिषेचनम् उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्
Verse 10
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी
Verse 11
 कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः
Verse 12
शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम् वादित्ररवसङ्घुष्टं कुब्जा वामनिकायुतम् लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः दान्तराजतसौवर्णवेदिकाभि स्समायुतम् नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् दान्तरजतसौवर्णैस्संवृतं परमासनैः विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् तत्प्रविश्य महाराजस्स्वमन्तः पुरमृद्धिमत्  ददर्श प्रियां राजा कैकेयीं शयनोत्तमे
Verse 13

Verse 14

Verse 15

Verse 16

Verse 17
कामबलसंयुक्तो रत्यर्थं मनुजाधिपः अपश्यन्दयितां भार्यां पप्रच्छ विषसाद 
Verse 18
 हि तस्य पुरा देवी तां वेलामत्यवर्तत   राजा गृहं शून्यं प्रविवेश कदाचन
Verse 19
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत यथा पूर्वमविज्ञाय स्वार्थलिप्सुमपण्डिताम्
Verse 20
प्रतीहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलिः देव देवी भृशं कृद्धा क्रोधागारमभिदृता
Verse 21
प्रतीहार्या वचश्शृत्वा राजा परमदुर्मनाः विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः
Verse 22
तत्र तां पतितां भूमौ शयानामतथोचिताम् प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः
Verse 23
 वृद्धस्तरुणीं भार्यां प्राणेभ्योपि गरीयसीम् अपापः पापसङ्कल्पां ददर्श धरणीतले लतामिव विनिष्कृत्तां पतितां देवतामिव किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा मायामिव परिभ्रष्टां हरिणीमिव संयताम्
Verse 24

Verse 25

Verse 26
करेणुमिव दिग्धेन विद्धां मृगयुना वने महागज इवारण्ये स्नेहात्परिममर्श ताम्
Verse 27
परिमृश्य  पाणिभ्यामभिसन्त्रस्तचेतनः कामी कमलपत्राक्षीमुवाच वनितामिदम्
Verse 28
 तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् देवि केनाभिशप्ताऽसि केन वाऽसि विमानिता यदिदं मम दुःखाय शेषे कल्याणि पांसुषु
Verse 29
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि भूतोपहतचित्तेव मम चित्तप्रमाथिनी
Verse 30
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनी
Verse 31
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् कः प्रियं लभतामद्य को वा सुमहदप्रियम्
Verse 32
मा रोदीर्मा  कार्षीस्त्वं देवि संपरिशोषणम् अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाऽप्यकिञ्चनः
Verse 33

Verse 34
अहं चैव मदीयाश्च सर्वे तव वशानुगाः  ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे
Verse 35
आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि बलमात्मनि जानन्ती  मां शङ्कितुमर्हसि करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
Verse 36
यावदावर्तते चक्रं तावती मे वसुन्धरा प्राचीनास्सिन्धुसौवीरा स्सौराष्ट्रा दक्षिणापथाः वङ्गाङ्गमगधाः मत्स्याः समृद्धा काशिकोसलाः
Verse 37

Verse 38
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम् ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि
Verse 39
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान्
Verse 40
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् परिपीडयितुं भूयो भर्तारमुपचक्रमे
0:000:00
Speed: