🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 11

Sarga 11

29 verses

Verse 1
तं मन्मथशरैर्विद्धमं कामवेगवशानुगम् उवाच पृथिवीपालं कैकेयी दारुणं वचः
Verse 2
नास्मि विप्रकृतादेव केनचिन्नावमानिता अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम्
Verse 3
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया
Verse 4
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम्
Verse 5
आवलिप्ते  जानासि त्वत्तः प्रियतरो मम मनुजो मनुजव्याघ्राद्रामादन्यो  विद्यते
Verse 6
तेनाजय्येन मुख्येन राघवेण महात्मना शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छासि
Verse 7
यं मुहूर्तमपश्यंस्तु  जीवेयमहं ध्रुवम् तेन रामेण कैकेयि शपे ते वचनक्रियाम्
Verse 8
आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम् तेन रामेण कैकेयि शपे ते वचनक्रियाम्
Verse 9
भद्रे हृदयमप्येतदनुमृशोद्धरस्व मे एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे
Verse 10
बलमात्मनि जानन्ती  मां शङ्कितुमर्हसि करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
Verse 11
सा तदर्थमना देवी तमभिप्रायमागतम् निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः
Verse 12
तेन वाक्येन संहृष्टा तमभिप्रायमागतम् व्याजहार महाघोरमभ्यागतमिवान्तकम्
Verse 13
यथा क्रमे शपसि वरं मम ददासि  तच्छृण्वन्तु त्रयस्त्रिंशद्देवास्साग्निपुरोगमाः
Verse 14
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा निशाचराणि भूतानि गृहेषु गृहदेवता यानि चान्यानि भूतानि जानीयुर्भाषितं तव
Verse 15
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा निशाचराणि भूतानि गृहेषु गृहदेवता यानि चान्यानि भूतानि जानीयुर्भाषितं तव
Verse 16
सत्यसन्धो महातेजाः धर्मज्ञः सुसमाहितः वरं मम ददात्येष तन्मे श्रृण्वन्तु दैवताः
Verse 17
इति देवी महेष्वासं परिगृह्याभिशस्य  ततः परमुवाचेदं वरदं काममोहितम्
Verse 18
स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा
Verse 19
तत्र चापि मया देव यत्त्वं समभिरक्षितः जाग्रत्या यतमानायास्ततो मे प्राददा वरौ
Verse 20
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् तथैव पृथिवीपाल सकाशे सत्यसङ्गर
Verse 21
तत् प्रतिश्रुत्य धर्मेण  चेद्दास्यसि मे वरम् अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता
Verse 22
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः
Verse 23
ततः परमुवाचेदं वरदं काममोहितम् वरौ यौ मे त्वया देव तदा दत्तौ महीपते तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः
Verse 24
अभिषेकसमारम्भो राघवस्योपकल्पितः अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्
Verse 25
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया तदा दैवासुरे युद्धे तस्य कालोऽयमागत
Verse 26
नव प़ञ्च  वर्षाणि दण्डकारण्यमाश्रितः चीराजिनजटाधारी रामो भवतु तापसः
Verse 27
भरतो भजतामद्य यौवराज्यमकण्टकम् एष मे परमः कामो दत्तमेव वरं वृणे अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम्
Verse 28
भरतो भजतामद्य यौवराज्यमकण्टकम् एष मे परमः कामो दत्तमेव वरं वृणे अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम्
Verse 29
 राजराजः भव सत्यसङ्गरः कुलं  शीलं  हि रक्ष जन्म  परत्रवासे हि वदन्त्यनुत्तमं तपोधनास्सत्यवचो हितं नृणाम्
0:000:00
Speed: