Book 2 • Chapter 12
Sarga 12
114 verses
Verse 1
ततश्शृत्वा महाराजः कैकेय्या दारुणं वचः चिन्तामभिसमापेदे मुहूर्तं प्रतताप च
Verse 2
किन्नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः
Verse 3
इति सञ्चिन्त्य तद्राजा नाध्यगच्छत्तदासुखम् प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः असंवृतायामासीनो जगत्यां दीर्घमुच्छवसन् मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः मोहमापेदिवान्भूय श्शोकोपहतचेतनः
Verse 4

Verse 5

Verse 6
चिरेण तु नृप स्संज्ञां प्रतिलभ्य सुदुःखितः कैकेयीमब्रवीत्क्रुद्धःप्रदहन्निव चक्षुषा
Verse 7
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि किं कृतं तव रामेण पापं पापे मयापि वा
Verse 8
यदा ते जननीतुल्यां वृत्तिं वहति राघव: तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता
Verse 9
त्वं मयाऽऽत्मविनाशार्थं भवनं स्वं प्रवेशिता अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा
Verse 10
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् अपराधं किमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्
Verse 11
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् जीवितं वाऽत्मनो रामं न त्वेव पितृवत्सलम्
Verse 12
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् अपश्यतस्तु मे रामं नष्टा भवति चेतना
Verse 13
तिष्ठेल्लोको विना सूर्यं शस्यं वा सलिलं विना न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्
Verse 14
तदलं त्यज्यतामेष निश्चयः पापनिश्चये अपि ते चरणै मूर्ध्ना स्पृशाम्येष प्रसीद मे
Verse 15
किमिदं चिन्तितं पापे त्वया परमदारुणम् अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति स मे ज्येष्ठस्सुत श्रीमान्धर्मज्येष्ठ इतीव मे तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्
Verse 16

Verse 17

Verse 18
तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता
Verse 19
इक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् अनयो नयसम्पन्ने यत्र ते विकृता मतिः
Verse 20
नहि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम्
Verse 21
ननु ते राघवस्तुल्यो भरतेन महात्मना बहुशो हि सुबाले त्वं कथाः कथयसे मम
Verse 22
तस्य धर्मात्मनो देवि वनवासं यशस्विनः कथं रोचयसे भीरु नव वर्षाणि पञ्च च
Verse 23
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः कथं रोचयसे वासमरण्ये भृशदारुणे
Verse 24
रोचयस्यभिरामस्य रामस्य शुभलोचने तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्
Verse 25
रामो हि भरताद्भूयस्तव शुश्रूषते सदा विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये
Verse 26
शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्
Verse 27
परिवादोऽपवादो वा राघवे नोपपद्यते सान्त्वयन्सर्वभूतानि राम श्शुद्धेन चेतसा गृह्णाति मनुजव्याघ्र प्रियैर्विषयवासिनः
Verse 28
परिवादोऽपवादो वा राघवे नोपपद्यते सान्त्वयन्सर्वभूतानि राम श्शुद्धेन चेतसा गृह्णाति मनुजव्याघ्र प्रियैर्विषयवासिनः
Verse 29
सत्येन लोकान् जयति दीनान् दानेन राघवः गुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान्
Verse 30
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे
Verse 31
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् पापमाशंससे रामे महर्षिसमतेजसि
Verse 32
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्
Verse 33
क्षमा यस्मिन्दमस्त्याग सत्यं धर्मः कृतज्ञता अप्यहिंसा च भूतानां तमृते का गतिर्मम
Verse 34
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि
Verse 35
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत्
Verse 36
अञ्जलिं करोमि कैकेयि पादौ चापि स्पृशामि ते शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत्
Verse 37
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् घूर्णमानं महाराजं शोकेन समभिप्लुतम् पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः
Verse 38
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् घूर्णमानं महाराजं शोकेन समभिप्लुतम् पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः
Verse 39
यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि
Verse 40
यदा समेता बहवस्त्वया राजर्षय स्सह कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि
Verse 41
यस्याः प्रसादे जीवामि या च मामभ्यपालयत् तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्षयसि
Verse 42
किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप यो दत्वा वरमद्यैव पुनरन्यानि भाषसे
Verse 43
शैब्यश्श्येनकपोतीये स्वमांसं पक्षिणे ददौ अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्
Verse 44
सागरस्समयं कृत्वा न वेलामतिवर्तते समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन्
Verse 45
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते
Verse 46
भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः
Verse 47
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते
Verse 48
एकाहमपि पश्येयं यद्यहं राममातरम् अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम
Verse 49
भरतेनात्मना चाहं शपे ते मनुजाधिप यथा नान्येन तुष्येयमृते रामविवासनात्
Verse 50
एतावदुक्त्वा वचनं कैकेयी विरराम ह विलपन्तं च राजानं न प्रतिव्याजहार सा
Verse 51
श्रुत्वा तु राजा कैकेय्या वृतं परमशोभनम् रामस्य च वने वासमैश्वर्यं भरतस्य च नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः
Verse 52
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् दुःखशोकमयीं घोरां राजा न सुखितोऽभवत्
Verse 53
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् दुःखशोकमयीं घोरां राजा न सुखितोऽभवत्
Verse 54
स देव्या व्यवसायं च घोरं च शपथं कृतम् ध्यात्वा रामेति निश्श्वस्य छिन्न स्तरुरिवापतत्
Verse 55
नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः हृततेजा यथा सर्पो बभूव जगतीपतिः
Verse 56
दीनया तु गिरा राजा इति होवाच कैकयीम् अनर्थमिममर्थाभं केन त्वमुपदर्शिता भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे
Verse 57
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा बालायास्तत्त्वितिदानीं ते लक्षये विपरीतवत्
Verse 58
कुतो वा ते भयं जातं या त्वमेवंविधं वरम् राष्ट्रे भरतमासीनं वृणीषे राघवं वने
Verse 59
विरमैतेन भावेन त्वमेतेनानृतेन वा यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च
Verse 60
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि किन्नु दुखमलीकं वा मयि रामे च पश्यसि
Verse 61
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् रामादपि हि तं मन्ये धर्मतो बलवत्तरम्
Verse 62
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते मुखवर्णं विवर्णं तु तं यथैवेन्दुमुपप्लुतम्
Verse 63
तां हि मे सुकृतां बुद्धिं सुहृद्भिस्सह निश्चिताम् कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् किं मां वक्ष्यन्ति राजानो नानादिग्भ्य स्समागताः बालो बताऽयमैक्ष्वाकश्चिरं राज्यमकारयत्
Verse 64
तां हि मे सुकृतां बुद्धिं सुहृद्भिस्सह निश्चिताम् कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् किं मां वक्ष्यन्ति राजानो नानादिग्भ्य स्समागताः बालो बताऽयमैक्ष्वाकश्चिरं राज्यमकारयत्
Verse 65
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा
Verse 66
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति
Verse 67
किं मां वक्ष्यति कौशल्या राघवे वनमास्थिते किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्
Verse 68
यदा यदा हि कौशल्या दासीवच्च सखीव च भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा न मया सत्कृता देवी सत्कारार्हा कृते तव
Verse 69
यदा यदा हि कौशल्या दासीवच्च सखीव च भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा न मया सत्कृता देवी सत्कारार्हा कृते तव
Verse 70
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्
Verse 71
विप्रकारं च रामस्य सम्प्रयाणं वनस्य च सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति
Verse 72
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्
Verse 73
वैदेही बत मे प्राणान्शोचन्ती क्षपयिष्यति हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी
Verse 74
न हि राममहं दृष्ट्वा प्रवसन्तं महावने चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्
Verse 75
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे
Verse 76
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः
Verse 77
अनृतैर्बहु मां सान्त्वै स्सान्त्वयन्ती स्म भाषसे गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः
Verse 78
अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम् धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा
Verse 79
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्
Verse 80
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा
Verse 81
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्
Verse 82
मया ह्यपितृकः पुत्र स्समहात्मा दुरात्मना तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति
Verse 83
बालिशो बत कामात्मा राजा दशरथो भृशम् यः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति
Verse 84
व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते
Verse 85
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति
Verse 86
यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति
Verse 87
शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः स वनं प्रब्रजे त्युक्तो बाढ मित्येव वक्षयति
Verse 88
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्
Verse 89
मृते मयि गते रामे वनं मनुजपुङ्गवे इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे
Verse 90
कौशल्या मां च रामं च पुत्रौ च यदि हास्यति दुःखान्यसहती देवी मामेवानुमरिष्यति
Verse 91
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिस्सह प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव
Verse 92
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि
Verse 93
प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः
Verse 94
हन्तानार्ये ममामित्रे सकामा भव कैकयि मृते मयि गते रामे वनं पुरुषपुङ्गवे सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि
Verse 95
हन्तानार्ये ममामित्रे सकामा भव कैकयि मृते मयि गते रामे वनं पुरुषपुङ्गवे सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि
Verse 96
त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा
Verse 97
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति
Verse 98
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् स कथन्नु कषायाणि तिक्तानि कटुकानि च भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति
Verse 99
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् स कथन्नु कषायाणि तिक्तानि कटुकानि च भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति
Verse 100
महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः काषायपरिधानस्तु कथं भूमौनिवत्स्यति
Verse 101
कस्यैतद्धारुणं वाक्यमेवंविधमचिन्तितम् रामस्यारण्यगमनं भरतस्याभिषेचनम्
Verse 102
धिगस्तु योषितो नाम शठा स्स्वार्थपरास्सदा न ब्रवीमि स्त्रिय स्सर्वा भरतस्यैव मातरम्
Verse 103
अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवाऽपि रामे
Verse 104
परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः कृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम्
Verse 105
अहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम् नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वैव च पुनर्युवेव
Verse 106
विनाऽपि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि रामं तु गच्छन्तमित स्समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे
Verse 107
विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्
Verse 108
मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी
Verse 109
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशना स्सहस्रधा
Verse 110
न किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् कथन्नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसम्मते
Verse 111
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज न ते करिष्यामि वच स्सुदारुणं ममाहितं केकयराजपांसनि
Verse 112
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् 2.12,112
Verse 113
न जीवितं मेऽस्ति पुनःकुत स्सुखं विनाऽऽत्मजेनाऽत्मवतः कुतो रतिः ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे
Verse 114
स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया पपात देव्याश्चरणौ प्रसारितावुभावसम्स्पृश्य यथाऽतुरस्तथा
0:000:00
Speed: