🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 13

Sarga 13

26 verses

Verse 1
अतदर्हं महाराजं शयानमतथोचितम् ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी पुनराकारयामास तमेव वरमङ्गना
Verse 2
अतदर्हं महाराजं शयानमतथोचितम् ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी पुनराकारयामास तमेव वरमङ्गना
Verse 3
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः मम चेमं वरं कस्माद्विधारयितुमिच्छसि
Verse 4
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव
Verse 5
मृते मयि गते रामे वनं मनुजपुङ्गवे हन्तानार्ये ममामित्रे सकामा सुखिनी भव
Verse 6
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् प्रत्यादेशादभिहितं धारयिष्ये कथं बत
Verse 7
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति
Verse 8
अपुत्रेण मया पुत्रश्श्रमेण महता महान् रामो लब्धो महाबाहु स्सकथं त्यज्यते मया
Verse 9
शूरश्च कृतविद्यश्च जितक्रोधो क्षमापरः कथं कमलपत्राक्षो मया रामो विवास्यते
Verse 10
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् अभिराममहं रामं प्रेषयिष्यामि दण्डकान्
Verse 11
सुखानामुचितस्यैव दुःखैरनुचितस्य  दुखं नामानुपश्येयं कथं रामस्य धीमतः
Verse 12
यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् अदुःखार्हस्य रामस्य तत स्सुखमवाप्नुयाम्
Verse 13
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् किं विप्रियेण कैकेयि प्रियं योजयसे मम अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे
Verse 14
तथा विलपतस्तस्य परिभ्रमितचेतसः अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत
Verse 15
सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता राज्ञो विलपमानस्य  व्यभासत शर्वरी
Verse 16
तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः विललापार्तवद्युखं गगनासक्तलोचनः
Verse 17
 प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे क्रियतां मे दया भद्रे मयाऽयं रचितोऽञ्जलिः
Verse 18
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत्
Verse 19
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्
Verse 20
साधु वृत्तस्य दीनस्य त्वद्गतस्य गतायुषः प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः
Verse 21
शून्ये  खलु सुश्रोणि मयेदं समुदाहृतम् कुरु साधु प्रसादं मे बाले सहृदया ह्यसि
Verse 22
प्रसीद देवि रामोमेत्वद्दत्तं राज्यमव्यम् लभतामसितापाङ्गे यशः परमवाप्नु हि
Verse 23
मम रामस्य लोकस्य गुरूणां भरतस्य  प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे
Verse 24
विशुद्धभावस्य सुदुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा  चकार वाक्यम्
Verse 25
ततस्स राजा पुनरेव मूर्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम् समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुखितः
Verse 26
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः विबोध्यमानः प्रतिबोधनं तदा निवारयामास  राजसत्तमः
0:000:00
Speed: