Book 2 • Chapter 14
Sarga 14
68 verses
Verse 1
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत्
Verse 2
पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि
Verse 3
आहु स्सत्यं हि परमं धर्मं धर्मविदो जनाः सत्यमाश्रित्य हि मया त्वं च धर्मं प्रबोधितः
Verse 4
संश्रुत्य शैब्यश्श्येनाय स्वां तनुं जगतीपतिः प्रदाय पक्षिणे राज न्जगाम गतिमुत्तमाम्
Verse 5
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
Verse 6
सरितां तु पतिस्स्वल्पां मर्यादां सत्यमन्वितः सत्यानुरोधात्समये स्वां वेलां नातिवर्तते
Verse 7
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्टितः सत्यमेवाक्षया वेदा सत्येनैवाप्यते स्परम्
Verse 8
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः सफलस्स वरो मेऽस्तु वरदो ह्यसि सत्तम
Verse 9
धर्मस्यैहाभिकामार्थं मम चैवाभिचोदनात् प्रव्राजय सुतं रामं त्रिःखलु त्वां ब्रवीम्यहम्
Verse 10
समयं च ममार्येमं यदि त्वं न करिष्यसि अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्
Verse 11
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा
Verse 12
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् स धुर्योवैपरिस्पन्दन्युगचक्रान्तरं यथा
Verse 13
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्
Verse 14
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह
Verse 15
प्रयाता रजनी देवि सूर्यस्योदयनंप्रति अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम्
Verse 16
रामाभिषेकसंभारैस्तदर्थमुपकल्पितैः रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्
Verse 17
त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया व्याहन्ताऽस्यशुभाचारे यदि रामाभिषेचनम्
Verse 18
न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम्
Verse 19
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी
Verse 20
ततः पापसमाचारा कैकेयी पार्थिवं पुनः उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता
Verse 21
किमिदं भाषसे राजन्वाक्यं गररुजोपमम् आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि
Verse 22
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि
Verse 23
स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्
Verse 24
धर्मबन्धेन बध्दोऽस्मि नष्टा च मम चेतना ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्
Verse 25
ततः प्रभातां रजनीमुदिते च दिवाकरे पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते वसिष्ठो गुणसम्पन्न श्शिष्यै परिवृतस्तदा उपगृह्याशु सम्भारान्प्रविवेश पुरोत्तमम्
Verse 26

Verse 27
सिक्तसम्मार्जितपथां पताकोत्तम भूषिताम् विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् संहृष्टमनुजोपेतां समृद्धविपणापणाम् महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् चन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम् तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ददर्शान्तःपुरश्रेष्ठं नानाद्विजगणायुतम् पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् यज्ञविद्भि स्सुसम्पूर्णं सदस्यैः परमद्विजैः
Verse 28

Verse 29

Verse 30

Verse 31
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् वसिष्ठः परमप्रीतः परमर्षिर्विवेश च
Verse 32
सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्
Verse 33
तमुवाच महातेजा स्सूतपुत्रं विशारदम् 2.14.33 वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्
Verse 34
इमे गङ्गोदकघटा स्सागरेभ्यश्च काञ्चनाः औदुम्बरं भद्रपीठमभिषेकार्थमागतम् सर्वबीजानि गन्धाश्च रत्नानि विविधानि च क्षौद्रं दधि घृतं लाजा दर्भास्सुमनसः पयः अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः चतुरश्वो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम् वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् श्वेते च वालव्यजने भृङ्गारुश्च हिरण्मयः हेमदामपिनध्दश्च ककुद्मान्पाण्डुरो वृषः केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः सिंहासनं व्याघ्रतनु स्समिद्धश्च हुताशनः सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृता स्स्त्रयः आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः पौरजानपदश्रेष्ठा नैगमाश्च गणै स्सह एते चान्ये च बहवो नीयमानाः प्रियंवदाः अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः
Verse 35

Verse 36

Verse 37

Verse 38

Verse 39

Verse 40

Verse 41

Verse 42
त्वरयस्व महाराजं यथा समुदितेऽहनि पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्
Verse 43
इति तस्य वच श्श्रुत्वा सूतपुत्रो महात्मनः स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्
Verse 44
तं तु पूर्वोदितं वृध्दं द्वारस्था राज सम्मतम् न शेकुरभिसंरोध्दुं राज्ञः प्रियचिकीर्षवः
Verse 45
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे
Verse 46
तत स्सूतो यथाकालं पार्थिवस्य निवेशने सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्
Verse 47
यथा नन्दति तेजस्वी सागरो भास्करोदये प्रीतः प्रीतेन मनसा तथाऽनन्दघन स्स्वतः
Verse 48
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम्
Verse 49
वेदास्सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम् 2.14.49 ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्
Verse 50
आदित्यस्सह चन्द्रेण यथा भूतधरां शुभाम् बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्
Verse 51
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः विराजमानो वपुषा मेरोरिव दिवाकरः
Verse 52
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते
Verse 53
गता भगवती रात्रिः कृतं कृत्यमिदं तव बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् उदतिष्ठत रामस्य समग्रमभिषेचनम्
Verse 54

Verse 55
पौरजानापदैश्चापि नैगमैश्च कृताञ्जलिः स्वयं वशिष्ठो भगवान्ब्राह्मणै स्सह तिष्ठति
Verse 56
क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम् यथा ह्यपालाः पशवो यथा सेना ह्यनायका यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते
Verse 57

Verse 58
इति तस्य वच श्शृत्वा सान्त्वपूर्वमिवार्थवत् अभ्यकीर्यत शोकेन भूय एव महीपतिः
Verse 59
तत स्सराजा तं सूतं सन्नहर्ष स्सुतं प्रति शोकरक्तेक्षण श्श्रीमानुद्वीक्ष्योवाच धार्मिकः वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि
Verse 60
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत्
Verse 61
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
Verse 62
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः प्रजागरपरिश्रान्तो निद्राया वशमुपेयिवान्
Verse 63
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् राममानय भद्रं ते नात्र कार्या विचारणा
Verse 64
स मन्यमानः कल्याणं हृदयेन ननन्द च निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात्
Verse 65
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्
Verse 66
इति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः निर्जगाम महाबाहो राघवस्य दिदृक्षया
Verse 67
सागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात् निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः
Verse 68
ततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतो विलोकयन् ददर्श पौरान्विविधान्महाधना नुपस्थितान्द्वारमुपेत्य विष्ठितान्
0:000:00
Speed: