🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 114

Sarga 114

31 verses

Verse 1
स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः
Verse 2
बिडालोलूकचरितामालीननरवारणाम् तिमिराभ्याहतां कालीमप्रकाशां निशामिव
Verse 3
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्
Verse 4
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् लीनमीनझषग्राहां कृशां गिरिनदीमिव
Verse 5
विधूमामिव हेमाभामध्वराग्ने स्समुत्थिताम् हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्
Verse 6
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् हतप्रवीरामापन्नां चमूमिव महाहवे
Verse 7
सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् प्रशान्तमारुतोद्धूतां जलोर्मिमिव निस्स्वनाम्
Verse 8
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः सुत्याकाले सुनिर्वृत्ते वेदिं गतरवामिव
Verse 9
गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् गोवृषेण परित्यक्तां गवां पक्तिमिवोत्सुकाम्
Verse 10
प्रभाकराद्यै स्सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव
Verse 11
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् संवृतद्युतिविस्तारां तारामिव दिवश्च्युताम्
Verse 12
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् द्रुतदावाग्नि विप्लुष्टां क्लान्तां वनलतामिव
Verse 13
सम्मूढनिगमांस्तब्धां संक्षिप्तविपणापणाम् प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्
Verse 14
क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम् हतशौण्डामिव ध्वस्तांं पानभूमिमसंस्कृताम्
Verse 15
वृक्णभूमितलां निम्नां वृक्णपात्रैस्समावृताम् उपयुक्तोदकां भग्नां प्रपां निपतितामिव
Verse 16
विपुलां विततां चैव युक्तपाशां तरस्विनाम् भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्
Verse 17
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् निहतां प्रतिसैन्येन वडवामिव पातिताम्
Verse 18
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम्
Verse 19
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम्
Verse 20
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव
Verse 21
भरतस्तु रथस्थ स्सन् श्रीमान्दशरथात्मजः वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्
Verse 22
किं नु खल्वद्य गम्भीरो मूर्छितो  निशम्यते यथापुरमयोध्यायां गीतवादित्रनिस्वनः
Verse 23
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः धूपितागुरुगन्धश्च  प्रवाति समन्ततः
Verse 24
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः प्रमत्तगजनादश्च महांश्च रथनिस्वनः नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते
Verse 25
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः गते हि रामे तरुणा स्संतप्ता नोपभुञ्जते
Verse 26
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः गते हि रामे तरुणा स्संतप्ता नोपभुञ्जते
Verse 27
बहिर्यात्रां  गच्छन्ति चित्रमाल्यधरा नराः नोत्सवा स्सम्प्रवर्तन्ते रामशोकार्दिते पुरे
Verse 28
सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता  हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा
Verse 29
कदा नु खलु मे भ्राता महोत्सव इवाऽगतः जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः
Verse 30
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः
Verse 31
एवं बहुविधं जल्पन्विवेश वसतिं पितुः तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव
0:000:00
Speed: