🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 113

Sarga 113

24 verses

Verse 1
तत श्शिरसि कृत्वा तु पादुके भरतस्तदा आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः
Verse 2
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः अग्रतः प्रययु स्सर्वे मन्त्रिणो मन्त्रपूजिताः
Verse 3
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा प्रदक्षिणं  कुर्वाणाश्चित्रकूटं महागिरिम्
Verse 4
पश्यन्धातुसहस्राणि रम्याणि विविधानि  प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा
Verse 5
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा आश्रमं यत्र  मुनिर्भरद्वाजः कृतालयः
Verse 6
 तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् अवतीर्य रथात्पादौ ववन्दे भरतस्तदा
Verse 7
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् अपि कृत्यं कृतं तात रामेण  समागतम्
Verse 8
एवमुक्त स्स तु ततो भरद्वाजेन धीमता प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः
Verse 9
 याच्यमानो गुरुणा मया  दृढविक्रमः राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्
Verse 10
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम
Verse 11
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच  वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्
Verse 12
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव
Verse 13
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः पादुके ह्यधिरुह्यैते मम राज्याय वै ददौ
Verse 14
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे
Verse 15
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः भरद्वाजश्शुभतरं मुनिर्वाक्यमुवाच तम्
Verse 16
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम्
Verse 17
अमृत स्समहाबाहुः पिता दशरथस्तव यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सलः
Verse 18
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः आमन्त्रयितुमारेभे चरणावुपगृह्य 
Verse 19
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः
Verse 20
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी
Verse 21
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ददृशुस्तां पुन स्सर्वे गङ्गां शुभजलां नदीम्
Verse 22
तां रम्यजलसंपूर्णां सन्तीर्य सहबान्धवः शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः शृङ्गिबेरपुराद्भूय स्त्वयोध्यां सन्ददर्श 
Verse 23
अयोध्यां  ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् भरतो दुःख सन्तप्त स्सारथिं चेदमब्रवीत्
Verse 24
सारथे पश्य विध्वस्ता साऽयोध्या  प्रकाशते निराकारा निरानन्दा दीना प्रतिहतस्वरा
0:000:00
Speed: