🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 112

Sarga 112

31 verses

Verse 1
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् विस्मिता: स‌ङ्गमं प्रेक्ष्य समवेता महर्षयः
Verse 2
अन्तर्हिता मुनिगणास्सिद्धाश्च परमर्षयः तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे
Verse 3
 धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ श्रुत्वा वयं हि सम्भाषामुभयोस्स्पृहयामहे
Verse 4
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः भरतं राजशार्दूलमित्यूचु: स‌ङ्गता वचः
Verse 5
कुले जात महाप्राज्ञ महावृत्त महायशः ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे
Verse 6
सदाऽनृणमिमं रामं वयमिच्छामहे पितुः आनृणत्वाच्च कैकेय्या: स्वर्गम् दशरथो गतः
Verse 7
एतावदुक्त्वा वचनं गन्धर्वा: स‌महर्षयः राजर्षयश्चैव तदा सर्वे स्वां स्वां गतिं गताः
Verse 8
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः राम स्संहृष्टवदनस्तानृषीनभ्यपूजयत्
Verse 9
त्रस्तगात्रस्तु भरतस्स वाचा सज्जमानया कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्
Verse 10
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्
Verse 11
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा
Verse 12
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः त्वामेव प्रतिवीक्षन्ते पर्जन्यमिव कर्षकाः
Verse 13
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि शक्तिमानसि काकुत्स्थ लोकस्य परिपालने
Verse 14
इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा भृशं सम्प्रार्थयामास राममेव प्रियंवदः
Verse 15
तमङ्के भरतं कृत्वा रामो वचनमब्रवीत् श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम्
Verse 16
आगता त्वामियं बुद्धिस्स्वजा वैनयिकी  या भृशमुत्सहसे तात रक्षितुं पृथिवीमपि
Verse 17
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः सर्वकार्याणि सम्मन्त्र्य सुमहन्त्यपि कारय
Verse 18
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् अतीयात्सागरो वेलां  प्रतिज्ञामहं पितुः
Verse 19
कामाद्वा तात लोभाद्वा मात्रातुभ्यमिदं कृतम्  तन्मनसि कर्तव्यं वर्तितव्यं  मातृवत्
Verse 20
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् तेजसाऽऽदित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम्
Verse 21
आधिरोहाऽर्य पादाभ्यां पादुके हेमभूषिते एतेहि सर्वलोकस्य योगक्षेमं विधास्यतः
Verse 22
सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य  प्रायच्छत्सुमहातेजा भरताय महात्मने
Verse 23
 पादुके सम्प्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम् फलमूलाशनो वीर भवेयं रघुनन्दन तवाऽगमनमाकाङ्क्षान्वसन्वै नगराद्बहिः तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप
Verse 24
 पादुके सम्प्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम् फलमूलाशनो वीर भवेयं रघुनन्दन तवाऽगमनमाकाङ्क्षान्वसन्वै नगराद्बहिः तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप
Verse 25
चतुर्दशे तु संपूर्णे वर्षेऽहनि रघूत्तम  द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्
Verse 26
तथेति  प्रतिज्ञाय तं परिष्वज्य सादरम् शत्रुघ्नं  परिष्वज्य भरतं चेदमब्रवीत्
Verse 27
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति मया  सीतया चैव शप्तोऽसि रघुसत्तम इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज 
Verse 28
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति मया  सीतया चैव शप्तोऽसि रघुसत्तम इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज 
Verse 29
 पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् प्रदक्षिणं चैव चकार राघवम् चकार ते चोत्तमनागमूर्धनि
Verse 30
अथाऽनुपूर्व्यात्प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथाऽनुजौ व्यसर्जयद्राघववंशवर्धनस्थिरः स्वधर्मे हिमवानिवाचलः
Verse 31
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः  त्वेव मात्रृ़रभिवाद्य सर्वारुदन्कुटीं स्वां प्रविवेश राघवः
0:000:00
Speed: